________________
१५०
संमतितर्कप्रकरणे, काण्ड-३, गाथा-८
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प. ७५ प्रकारान्तरेणाप्यात्मनोऽनेकान्तरूपतामुपपादयति सम्मतिकारः
“कोवं उप्पायन्तो पुरिसो जीवस्स कारओ होइ ।
तत्तो विभइयव्वो, परंमि सयमेव भइयव्यो ।। ३/७।।" कोपं कोपपरिणतिम्, उत्पादयन् पुरुषः, जीवस्य परभवप्रादुर्भावपरिणतिविशिष्टस्य, कारको निर्वर्तको भवति, तन्निमित्तिकर्मण उपादानात्, कोपपरिणाममापद्यमानष्टा पुरुषः, ततः परभवजीवाद्, विभजनीयो भिन्नो व्यवस्थापनीयः, कार्यकारणयोर्मुत्पिण्डघटवत्कथञ्चिद्भेदात्, अन्यथा कार्यकारणभावाभावप्रसङ्गात् । 'वीतरागजन्मादर्शन' न्यायेनैकत्वेन सिद्धस्य जीवस्य कथं भवभेदेन भेद इति चेत् ?, मृद्रव्यतयैकत्वेन सिद्धस्य मृत्पिण्डघटभावाभ्यामपि कथं भेदो, न हि मृत्पिण्डघटभावाभ्यां मृद इव देवमनुजभावाभ्यां जीवस्य वैलक्षण्यमप्रामाणिकमिति विभावनीयम् । न चासौ ततो भिन्न एव, यतः, परस्मिन्भवे, स्वयमेव पुरुषो, भजनीय आत्मरूपतयाऽभेदेन व्यवस्थापनीयो, घटाद्याकारपरिणतमृद्र्व्यवदित्यनेकान्तः । यद्वा कोपपरिणतिमन्यस्मिन् जीवे उत्पादयन् पुरुषः कारको भवति, ततोऽसौ कोपकारकत्वेन विभजनीयः कोपपरिणतियोग्ये जीवे कारकोऽन्यत्राकारक इति ।। __ [ द्रव्य-गुणयोः कथंचिदभेदमनिच्छतां केषांचित् तयोर्भेदविषयाऽऽशङ्का ] द्रव्यं गुणादिभ्योऽनन्यत् तेऽपि द्रव्यादनन्य एवेत्येतदनेकान्तममृष्यमाणा आहुः
रूव-रस-गंध-फासा असमाणग्गहण-लक्खणा जम्हा ।
तम्हा दव्वाणुगया गुण त्ति ते केइ इच्छंति ।।८।। रूप-रस-गन्ध-स्पर्शाः असमानग्रहण-लक्षणा यस्मात् ततो द्रव्याश्रिता गुणा इति केचन वैशेषिकाद्याः, स्वयूथ्या वा सिद्धान्तानभिज्ञा अभ्युपगच्छन्ति । तथाहि-गुणा द्रव्याद् भिन्नाः, भिन्नप्रमाणग्राह्यत्वात्, भिन्नलक्षणत्वाञ्च; स्तम्भात् कुम्भवत् । न चासिद्धौ हेतू, द्रव्यस्य 'यमहमद्राक्षं तमेव स्पृशामि' इत्यनुसंधानाध्यक्षग्राह्यत्वात रूपादीनां च प्रतिनियतेन्द्रियप्रभवप्रत्ययावसेयत्वात् ‘दार्शनं स्पार्शनं च द्रव्यम्' इत्याद्यभिधानादसमानग्रहणता द्रव्य-गुणयोः सिद्धा । तथा, विभिन्नलक्षणत्वमपि- “क्रियावद् गुणवत् समवायिकारणं द्रव्यम्” [वैशेषिकद०
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org