________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-८
१५१
3
१-१-१५] “द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्षः” [वैशेषिकद० १-१-१६] इति । वचनात् सिद्धम् ।।८।।
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प.७५ अथ द्रव्यगुणानां भेदाऽभेदानेकान्तममृष्यमाणानां मतमुत्थापयति
"रूवरसगंधफासा, असमाणग्गहणलक्खणा जम्हा ।
तम्हा दव्वाणुगया, गुण त्ति ते केइ इच्छंति ।। ३/८ ।।" रूपरसगन्धस्पर्शा असमानग्रहणलक्षणा यस्मात्ततो द्रव्याश्रिता गुणास्तद्भिन्ना एवेति, केचन वैशेषिकाद्याः स्वयूथ्या वा सिद्धान्ताऽनभिज्ञा अभ्युपगच्छन्ति । तथा हि गुणा द्रव्याद्भिन्ना भिन्नप्रमाणग्राह्यत्वाद्भिवलक्षणत्वाञ्च, स्तम्भात्कुम्भवत् । न चासिद्धौ हेतू, द्रव्यस्य ‘यमहमद्राक्षं तमेव स्पृशामि' इत्यनुसन्धानाद् व्यक्षग्राह्यत्वाद्, रूपादीनां च प्रतिनियतेन्द्रियप्रभवप्रत्ययावसेयत्वाद्, ‘दार्शनं स्पार्शनं च द्रव्यम्' इत्याद्यभिधानादसमानग्रहणता द्रव्यगुणयोः सिद्धा । तथा विभिन्नलक्षणत्वमपि “क्रियावद्गुणवत्समवायिकारणं वा द्रव्यम्” “द्रव्याश्रया निर्गुणा गुणा" इत्यादिवचनात्सिद्धम् ।
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायां स्त.७ गा.३१ उक्तमेव स्पष्टयन्नाह
अन्वयो व्यतिरेकप्टा द्रव्यपर्यायसंज्ञितौ ।
अन्योन्यव्याप्तितो भेदाभेदवृत्त्यैव वस्तु तौ ।। ३१ ।। अन्वयो व्यतिरेकप्टोत्येतावंशी द्रव्य-पर्यायसंज्ञितौ–'द्रव्यं' 'पर्याय'टोति द्रव्य-पर्यायपदवाच्यौ । एतेन 'द्रव्यं, गुणाः, पर्यायाप्टा' इति विभागः केषाञ्चिदनभिज्ञस्वयूथ्यानां परयूथ्यानां वा निरस्तः, विभिन्ननयग्राह्याभ्यां द्रव्यपर्यायत्वाभ्यामेव विभागात् । यदि च गुणोऽप्यतिरिक्तः स्यात् तदा तद्ग्रहार्थं द्रव्यार्थिक-पर्यायार्थिकवद् गुणार्थिकनयमपि भगवानुपादेक्ष्यत्, न चैवमस्ति, रूप-रस-गन्धस्पर्शानामर्हता तेषु तेषु सूत्रेषु “वण्णपज्जवेहिं०” इत्यादिना पर्यायसंज्ञयैव नियमनात् । ‘गुण एव तत्र पर्यायशब्देनोक्त' इति चेत् ? नन्वेवं गुणपर्यायशब्दयोरेकार्थत्वेऽपि पर्यायशब्देनैव भगवतो देशना, इति न गुणशब्देन पर्यायस्य तदतिरिक्तस्य वा गुणस्य विभागौचित्यम् । “एकगुणकाल:
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org