________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३
१४५
[ आप्तवचनस्यानेकान्तात्मकवस्तुबोधकत्वेन स्वरूपकथनम् ] सामान्य-विशेषानेकान्तात्मकवस्तुप्रतिपादकं वचनमाप्तस्य, इतरदितरस्येत्येतदेव दर्शयन्नाह
पचप्पन्नं भावं विगय-भविस्सेहिं जं समण्णेइ ।
एयं पडुञ्चवयणं दव्वंतरणिस्सियं जं च ।।३।। प्रत्युत्पन्नं भावं-वस्तुनो वर्तमानपरिणामम् विगत-भविष्यद्भ्यां पर्यायाभ्यां यत् समानरूपतया नयति प्रतिपादयति वचः तत् प्रतीत्यवचनं समीक्षितार्थवचनं सर्वज्ञवचनमित्यर्थः, अन्यञ्चानाप्तवचनम् । [S.T.P.628]
परमाण्वारम्भकद्रव्यात् कार्यद्रव्यं द्व्यणुकादि द्रव्यान्तरं वैशेषिकाभिप्रायतस्तेन निःसृतं संबद्धं कारणं परमाण्वादि यत् प्रतिपादयति तदपि प्रतीत्यवचनम् ।
अथवा एकद्रव्यादन्यद् द्रव्यं द्रव्यान्तरं तस्मिन् निःसृतं संबद्धं यत् तदपि प्रतीत्यवचनम् । यथा-दीर्घतरं मध्यमिकाङ्गुलिद्रव्यमपेक्ष्य हस्वतरमङ्गुष्ठकद्रव्यमिति वचः । ह्रस्व-दीर्घादिकस्तु स्वधर्म एव द्रव्यान्तरविशेषाभिव्यङ्ग्यः पितेव पुत्रादिना । __ यद्वा गोत्वसदृशपरिणतियुक्ताच्छाबलेयद्रव्यात् तत्सदृशपरिणतियुक्तं बाहुलेयादि द्रव्यान्तरं तस्मिन् निःश्रितं संबद्धं वाचकत्वेन ‘गौः' इति यद् वचनं तदपि प्रतीत्यवचनम् । न पुनः केवलतिर्यक्सामान्य-विशेष-तद्वदुभयादिप्रतिपादकम् असद्भूतार्थप्रतिपादकत्वाद् उन्मत्तवाक्यवत् [S.T.P. 629] ।।३।।
___-शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायां स्त.१ गा.४९ अत्र कार्यस्य सत्त्वं पूर्वोत्तरकालयोः । पर्यायार्थिकनयानुसारिणः पर्यायद्वारेणैवादिशन्ति, द्रव्यस्य निष्पन्नत्वेनाऽदलत्वात् । द्रव्यार्थिकनयानुसारिणस्तु तेन रूपेण द्रव्यस्यानुत्पन्नत्वाद् द्रव्यद्वारैवादिशन्ति । तदिदमुभयाभिप्रायेणोक्तं सम्मतौ“पञ्चप्पन्नं भावं विगयभविस्सेहिं जं सम्मण्णेइ, एयं पडुचवयणं" । [३/३] इति ।
Jain Education International 2010 02
For Private & Personal Use Only
www.jainelibrary.org