________________
१४४
एतणिव्विसेसं एयंतविसेसियं च वयमाणो । दव्वस्स पज्जवे, पज्जवाहि दवियं णियत्तेइ ||२||
संमतितर्कप्रकरणे, काण्ड - ३, गाथा- २
एकान्तेन निर्गता विशेषा यस्मात् सामान्यात् तद् विशेषविकलं सामान्यं वदन् द्रव्यस्य पर्यायान् ऋजुत्वादीन् निवर्तयति ऋजु-वक्रतापर्यायात्मिकाङ्गुल्यादिद्रव्यस्य अध्यक्षादिप्रमाणप्रतीयमानस्य विनिवृत्तिप्रसक्तेरध्यक्षादिप्रमाणबाधापत्तिः । तथा, एकान्तविशेषं सामान्यरहितं वदन् पर्यायेभ्यो विशेषेभ्यो द्रव्यं निवर्तयति, एवं चाङ्गुल्यादिद्रव्याऽव्यतिरिक्तऋजुवक्रतादिविशेषस्य प्रत्यक्षाद्यवगतस्य निवृत्तिप्रसक्तिः । न चाऽबाधितप्रमाणविषयीकृतस्य तथाभूतस्य तस्य निवृत्तिर्युक्ता, सर्वभावनिवृत्तिप्रसक्तेः अन्यभावाभ्युपगमस्यापि तन्निबन्धनत्वात् तत्प्रतीतस्याप्यभावे सर्वव्यवहाराभाव इति प्रतिपादितम् ।
अत्राह-‘सामण्णम्मि’ इत्यादिकाण्डं नाऽऽरब्धव्यम् उक्तार्थत्वात्, यतो न तावदनेन वस्तु अनेकान्तात्मकं प्रतिपाद्यते ' एगदवियम्मि' [ प्र० का ० गा० ३१] इत्यादिना 'इहरा समूहसिद्ध'[प्र० का० गा० २७] इत्यादिना च तस्य प्रतिपादितत्वात् । तथा, 'उप्पाय-ट्ठिइ-भंगा हंदि दवियलक्खणं एयं' [प्र० का० गा० १२] इत्यनेन लक्षणद्वारेण सर्वस्य सतः अनेकान्तात्मकत्वं प्रदर्शितमेव । अथ प्रमाणविषयवाक्यनिरूपणार्थमिदं प्रस्तूयते, तदपि न सम्यक् ; 'सवियप्पणिव्वियप्पं' [प्र० का० गा० ३५] इत्यादिना तस्यापि निरूपितत्वाद् वाक्यस्य च वस्तुत्वात् तन्निरूपणे तस्यापि निरूपितत्वान्न तन्निरूपणार्थमप्येतदपुनरुक्तम्, एवमेतत्; किन्तु प्रमेयप्राधान्येन तद्ग्राहकस्य प्रमाणस्यापि निरूपणमित्येतत्प्रदर्शनद्वारेण तत्प्रतिपादकवाक्यावतारः प्राग् विहितः, इह त्वविद्यमानप्रमेयस्य प्रमाणस्य प्रमाणत्वासंभवात् प्रमाणनिरूपणद्वारेण प्रमेयनिरूपणमिति प्रदर्शनद्वारेण तद्वाक्यावतार इत्यदोषः । यद्वा अनेकान्तपक्षोक्तदोषपरिहारोऽनेकधा व्यवस्थाप्यत इति न कष्टिाद् दोषः 'सामण्णम्मि' इत्यादि सूत्रसंदर्भविरचने । । २ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org