________________
राजगच्छीय-तर्कपञ्चानन-श्रीमदभयदेवसूरिनिर्मिततत्त्वबोधविधायिन्याख्यायाः व्याख्यायाः मूलगाथास्पर्शिव्याख्यांशसहितं कतिपयमूलगाथानां च विभिन्नग्रन्थेषु तत्तद्ग्रन्थकारैः कारिताभिर्वृत्तिभिर्युक्तं महादार्शनिकशिरोमणिविक्रमादित्यादिनृपतिप्रतिबोधकश्रीसिद्धसेनदिवाकररचितं
संमतितर्क-प्रकरणम् ।
तृतीयकाण्डः । [ सामान्यविशेषयोरन्योन्यानुविद्धस्वरूपत्वप्रदर्शनम् ] एवं दर्शन-ज्ञानात्मनोः परस्परविनिर्भागरूपतां प्रतिपाद्य इदानीं सामान्य-विशेषयोरन्योन्यानुविद्धं स्वरूपमुपदर्शयन्नाह
सामण्णम्मि विसेसो विसेसपक्खे य वयणविणिवेसो ।
दव्वपरिणाममण्णं दाएइ तयं च णियमेइ ।।१।। सामान्ये ‘अस्ति' इत्येतस्मिन्, विशेषो द्रव्यमित्ययम्; तथा विशेषपक्षे च घटादौ, ‘अस्ति' इत्येतस्य वचनस्य नाम-नामवतोरभेदात् सत्तासामान्यस्य, विनिवेशः प्रदर्शनम्, द्रव्यपरिणतिमन्यां सत्ताख्यस्य द्रव्यस्य पृथिव्याख्यां परिणतिमन्यां सत्तारूपापरित्यागेनैव वृत्तां दर्शयति विशेषाभावे सामान्यस्याप्यन्यथाभावप्रसक्तेः-यद् यदात्मकं तत् तदभावे न भवति, घटाद्यन्यतमविशेषाभावे मृद्वद् विशेषात्मकं च सामान्यमिति तदभावे तस्याप्यभावः । तथा, तकं च विशेषम्, द्वितीयपक्षे सामान्यात्मनि नियमयति विशेषः सामान्यात्मक एव तदभावे तस्याप्यभावप्रसङ्गाद् यतः सामान्यात्मकस्य विशेषस्य सामान्याभावे, घटादेरिव मृदभावे, न भावो युक्तः ।।१।।
[ सामान्य-विशेषयोरेकान्तभेदं वदतो दोषापत्तिप्रकटनम् ] न च विशेषाद् व्यतिरिक्तं सामान्यमेकान्ततः, तस्माद् वा विशेषा नियमतो भिन्नाः, इत्यभ्युपगन्तव्यम् अध्यक्षादिप्रमाणविरोधाद् इत्याह
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org