Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 222
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-३०-३१ १७७ तथा, 'अदहनः' इत्यत्राप्यनेकान्तः । तथाहि-यद् उदकद्रव्यं यथा दहनरूपेण प्रतिषिद्धंदहनो न भवतीति ‘अदहनः' इति तदपि न सर्वथा अदहनद्रव्यं भवति, पृथिव्यादेरदहनरूपाद् व्यावृत्तत्वात् अन्यथा दहनव्यतिरिक्तभूतैकत्वप्रसङ्ग इत्यनेकान्त एव अदहनव्यावृत्तस्य तद्रव्यत्वात् ।।३०।। -: अनेकान्तव्यवस्थायां : अनेकान्तवादस्वरूपवर्णने प.८५ स्यादेतद्, दहनाद्दहनः पचनात्पचन इत्यत्राप्यनेकान्ते दहनादावदहनादिविरुद्धरूपस्य सम्भवात् स्वरूपाभावप्रसङ्गस्तत्राह "गुणनिव्वत्तियसण्णा, एवं दहणादओ वि दट्ठवा । जंतु जहा पडिसिद्धं, दव्वमदव्वं तहा होइ ।। ३/३० ।। " गुणेन दहनादिना निर्वर्तिता उत्पादिता संज्ञा येषां तेऽपि दहनपचनादयः, एवमेवानेकान्तात्मका द्रष्टव्याः, तथा हि दाहपरिणामयोग्यं तृणादिकं दहतीति दहनः, तदपरिणतिस्वभावं त्वात्माकाशाप्राप्तवज्राण्वादिकं न दहतीत्यदहनः, तेन यद् द्रव्यं यथा दहनरूपतया प्रतिषिद्धम्, तदद्रव्यमदहनादिकम्, तथा भजनाप्रकारेण स्याद्दहनः स्यानेति भवति, ततो नाव्याप्यऽनेकान्तः । तथाऽदहन इत्यत्रा-प्यनेकान्तः, तथाहि यदुदकद्रव्यं दहनरूपेण प्रतिषिद्धं दहनो न भवतीत्यदहन इति भवति तदपि न सर्वथाऽदहनद्रव्यं भवति, पृथिव्यादेरदहनरूपाद् व्यावृत्तत्वात्, अन्यथा दहनव्यतिरिक्तभूतैकत्वप्रसङ्ग इत्यनेकान्त एव, दहनव्यावृत्तस्य तदतद्रव्यत्वात् । [ सर्वस्यापि वस्तुनः प्रतिनियतस्वरूपान्यथानुपपत्त्या स्वरूपास्तित्व पररूपनास्तित्वाभ्युपगमेनानेकान्तात्मकत्वप्रदर्शनम् ] नन्वेवं तदतव्यत्वाद् जीवद्रव्यमजीवद्रव्यम् अजीवद्रव्यं च जीवद्रव्यं स्यादित्याशङ्कयाऽऽह. कुंभो ण जीवदवियं जीवो वि ण होइ कुंभदवियं ति । तम्हा दो वि अदवियं अण्णोण्णविसेसिया होति ।।३१।। कुम्भो जीवद्रव्यं न भवतीति जीवोऽपि न भवति घटद्रव्यम् । तस्माद् द्वावपि अद्रव्यमन्योन्यविशेषितौ परस्पराभावात्मकौ । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314