________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३०-३१
१७७
तथा, 'अदहनः' इत्यत्राप्यनेकान्तः । तथाहि-यद् उदकद्रव्यं यथा दहनरूपेण प्रतिषिद्धंदहनो न भवतीति ‘अदहनः' इति तदपि न सर्वथा अदहनद्रव्यं भवति, पृथिव्यादेरदहनरूपाद् व्यावृत्तत्वात् अन्यथा दहनव्यतिरिक्तभूतैकत्वप्रसङ्ग इत्यनेकान्त एव अदहनव्यावृत्तस्य तद्रव्यत्वात् ।।३०।।
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प.८५ स्यादेतद्, दहनाद्दहनः पचनात्पचन इत्यत्राप्यनेकान्ते दहनादावदहनादिविरुद्धरूपस्य सम्भवात् स्वरूपाभावप्रसङ्गस्तत्राह
"गुणनिव्वत्तियसण्णा, एवं दहणादओ वि दट्ठवा ।
जंतु जहा पडिसिद्धं, दव्वमदव्वं तहा होइ ।। ३/३० ।। " गुणेन दहनादिना निर्वर्तिता उत्पादिता संज्ञा येषां तेऽपि दहनपचनादयः, एवमेवानेकान्तात्मका द्रष्टव्याः, तथा हि दाहपरिणामयोग्यं तृणादिकं दहतीति दहनः, तदपरिणतिस्वभावं त्वात्माकाशाप्राप्तवज्राण्वादिकं न दहतीत्यदहनः, तेन यद् द्रव्यं यथा दहनरूपतया प्रतिषिद्धम्, तदद्रव्यमदहनादिकम्, तथा भजनाप्रकारेण स्याद्दहनः स्यानेति भवति, ततो नाव्याप्यऽनेकान्तः । तथाऽदहन इत्यत्रा-प्यनेकान्तः, तथाहि यदुदकद्रव्यं दहनरूपेण प्रतिषिद्धं दहनो न भवतीत्यदहन इति भवति तदपि न सर्वथाऽदहनद्रव्यं भवति, पृथिव्यादेरदहनरूपाद् व्यावृत्तत्वात्, अन्यथा दहनव्यतिरिक्तभूतैकत्वप्रसङ्ग इत्यनेकान्त एव, दहनव्यावृत्तस्य तदतद्रव्यत्वात् । [ सर्वस्यापि वस्तुनः प्रतिनियतस्वरूपान्यथानुपपत्त्या स्वरूपास्तित्व
पररूपनास्तित्वाभ्युपगमेनानेकान्तात्मकत्वप्रदर्शनम् ] नन्वेवं तदतव्यत्वाद् जीवद्रव्यमजीवद्रव्यम् अजीवद्रव्यं च जीवद्रव्यं स्यादित्याशङ्कयाऽऽह. कुंभो ण जीवदवियं जीवो वि ण होइ कुंभदवियं ति ।
तम्हा दो वि अदवियं अण्णोण्णविसेसिया होति ।।३१।। कुम्भो जीवद्रव्यं न भवतीति जीवोऽपि न भवति घटद्रव्यम् । तस्माद् द्वावपि अद्रव्यमन्योन्यविशेषितौ परस्पराभावात्मकौ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org