________________
संमतितर्कप्रकरणे, काण्ड ३, गाथा- ३१-३२
यतोऽयमभिप्रायः-जीवद्रव्यं कुम्भादेरजीवद्रव्याद् व्यावृत्तम् अव्यावृत्तं वा ? प्रथमपक्षे स्वरूपापेक्षया जीवो जीवद्रव्यम्, कुम्भाद्यजीवद्रव्यापेक्षया तु न जीवद्रव्यमित्युभयरूपत्वादनेकान्त एव । द्वितीयविकल्पे तु सर्वस्य सर्वात्मकतापत्तेः प्रतिनियतरूपाभावतस्तयोरभावः खरविषाणवत् ततः सर्वमनेकान्तात्मकम् - अन्यथा प्रतिनियतरूपताऽनुपपत्तेः-इति व्यवस्थितम् ।।३१ ।।
१७८
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प. ८६
नन्वेवं तदतद्द्द्रव्यत्वाज्जीवद्रव्यमजीवद्रव्यम् अजीवद्रव्यं च जीवद्रव्यं स्यात् इत्याशङ्कायामाह - “कुंभो ण जीवदवियं जीवो वि ण होइ कुंभदवियं ति ।
तम्हा दो वि अदवियं अण्णोण्णविसेसिया होंति ।।३/३१ ।। "
“कुम्भो जीवद्रव्यम् न भवति, जीवोऽपि न भवति, घटद्रव्यं, तस्माद् द्वावप्यद्रव्यमन्योन्यविशेषितौ परस्पराभावात्मकौ । यतोऽयमभिप्रायः जीवद्रव्यं कुम्भादेरजीवद्रव्याद्, व्यावृत्तमव्यावृत्तं वा, प्रथमपक्षे स्वरूपापेक्षया जीवो जीवद्रव्यं कुम्भाद्यजीवद्रव्यापेक्षया तु न जीवद्रव्यमित्युभयरूपत्वादनेकान्त एव । द्वितीयविकल्पे तु सर्वस्य सर्वात्मकत्वापत्तेः, प्रतिनियतरूपाभावतस्तयोरभावः खरविषाणवत्, ततः सर्वमनेकान्तात्मकम्, अन्यथा प्रतिनियतरूपतानुपपत्तेरिति व्यवस्थितम् ।
[ उत्पादपर्यायस्य प्रयोग - विस्रसाजन्यत्वेन द्वैविध्यकथनम् ]
अत्र प्रागुक्तम्-‘प्रत्युत्पन्नं पर्यायं विगतभविष्यद्भ्यां यत् समानयति वचनं तत् प्रतीत्यवचनम्' इति, तत्र वचनादिकोऽपि पर्यायः, स चाऽप्रयत्नानन्तरीयको वचनविशेषलक्षणो घटादिकस्तु प्रयत्नानन्तरीयक इति केचित् संप्रतिपन्नास्तन्निराकरणाय 'यद् यतोऽन्वयव्यतिरेकाभ्यां प्रतीयते तत् तत एवाऽभ्युपगन्तव्यम् अन्यथा कार्यकारणभावाभावप्रसक्तिः’ इत्याह
उपाओ दुवियप्पो पओगजणिओ य वीससा चेव । तत्थ उ पओगजणिओ समुदयवायो अपरिसुद्धो ||३२||
द्विभेद उत्पादः-पुरुषेतरकारकव्यापारजन्यतया अध्यक्षानुमानाभ्यां तथा तस्य प्रतीतेः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org