________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३२
१७९
पुरुषव्यापारान्वयव्यतिरेकानुविधायित्वेऽपि शब्दविशेषस्य तदजन्यत्वे घटादेरपि तदजन्यताप्रसक्तेर्विशेषाभावात् प्रत्यभिज्ञानादेष्टा विशेषस्य प्रागेव निरस्तत्वात् तत्र प्रयोगेण यो जनित उत्पादः-मूर्तिमद्रव्यारब्धावयवकृतत्वात्-स समुदायवादः, तथाभूताऽऽरब्धस्य समुदायात्मकत्वात् । तत एवाऽसावपरिशुद्धः, सावयवात्मकस्य तच्छब्दवाच्यत्वेन अभिप्रेतत्वात्
।।३२।। -: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायां स्त.७, गा.१ अत्रोत्पादः ‘उत्पन्नमिदम्' इति धीसाक्षिको धर्मः । स द्विविधः-१. प्रयोगजनितः, २. विस्रसाजनितष्टा । पुरुषव्यापारजनित आद्यः, स च मूर्तिमद्रव्यारब्धावयवकृतत्वाद् समुदयवादः, तत एव चासावपरिशुद्ध इति गीयते । तदुक्तम्
"उप्पाओ दवियप्पो पओगजणिओ अ वीससा चेव ।
तत्थ य पओगजणिओ समुदयवाओ अपरिसुद्धो ।। ३/३२ ।।" इति अत्राऽपरिशुद्धत्वं स्वाश्रययावदवयवोत्पादापेक्षया पूर्णस्वभावत्वम् । न ह्यपूर्णावयवो घट उत्पद्यमानः कात्न्ये॒नोत्पन्न इति व्यवह्रियत इति । ननु च प्रयोगजन्य उत्पादः, घटादेरेव प्रयत्नजन्यत्वात्, उत्पादस्य त्वाद्यक्षणसंबन्धरूपस्याऽतथात्वादिति चेत् ? न, 'मुद्गरपाताद् नष्टो घटः' इति व्यपदेशाद् नाशे मुद्गरपातजन्यत्ववत् 'पुरुषव्यापारादुत्पन्नो घटः' इति व्यवहारादुत्पादेऽपि पुरुषव्यापारजन्यत्वस्यावश्यकत्वात्, विविच्याननुभूयमानत्वेनोत्पादापलापे च नाशस्याप्यपलापप्रसङ्गात्, उत्पत्तेराद्यक्षणसंबन्धेनान्यथासिद्धौ नाशस्यापि चरमक्षणसंबन्धनाशेऽन्ययासिद्धेः सुवचत्वात्, अन्यत्र तदाधारताप्रत्ययस्यात्पत्त्याधारताप्रत्ययस्येवावच्छेदकत्वेनोपपत्तेः । 'घटप्रतियोगिकत्वेन नाशो विलक्षण एवानुभूयत' इति चेत् ? तथोत्पादोऽपीति तुल्यम् । किञ्च, एवमाद्यक्षणे 'आद्यक्षणसंबन्धवान् घटः' इतिवत् ‘आद्यक्षण उत्पन्नो घटः' इति प्रयोगो न सूपपदः स्यादिति न किञ्चिदेतत् ।
____ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org