________________
१७६
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३०
कुम्भो ण जीवदवि जीवो वि ण होइ कुंभदविअं ति । तम्हा दो वि अदविअं अण्णोण्णविसेसिआ हुंति ।। ३/३१ ।। इति । --: न्यायखण्डखाघे (महावीरस्तवे) :
विभाग-१, गा. १६ तथा शाब्दबोधस्यापि नयभेदेन व्युत्पत्तिसङ्कोचादुपपत्तेः, योग्यताज्ञानस्यापि सम्बन्धविशेषनियन्त्रितस्य सम्भवात् । तदयं सामान्यरूपेण विशेषाभाव एव प्रसक्तः स च प्रतियोगितावच्छेदाकावच्छिन्नसत्त्वस्याभावविरोधित्वादनुपपन्न इति चेत् । न । विरोधस्य सम्बन्धविशेषनियन्त्रितत्वेनोक्तोत्तरत्वात्, तदयं निमित्तभेदाद्विशेषप्रतियोगिकत्वेन सामान्यरूपेण विशेषाभावो वोच्यतां सामान्यरूपेण प्रतियोग्युल्लेखाद्विशिष्टसम्बन्धेन सामान्याभावो वेति स्याद्वादिनां न किमपि दुर्वचम् । अनेनैवाभिप्रायेणाह-गन्धहस्ती सम्मती
“गइपरिणयं गई चेव, केइ णियमेण दवियमिच्छन्ति ।
___ तं पि य उड्ढगईअंतहा गई अण्णहा अगई" ।। ३/२९ ।। त्ति। कुतोऽपि निमित्तात् यद् यदेकान्तेन परैः स्वीक्रियते निमित्तभेदावतारेण तत्तन्निराकृत्य स्याद्वादविषयसमुञ्चयमर्यादायां नेयम्, गतिमत्त्वादेरिव गुणवत्त्वादेरप्येकान्तद्रव्यलक्षणत्वायोगादिति एतत्तात्पर्यम् ।।
[ दहनादावपेक्षाविशेषेणादहनत्वादिकं निरूप्यानेकान्तस्य व्यापकत्वसमर्थनम् ] स्यादेतत् ‘दहनाद् दहनः, पवनात् पवनः' इत्यत्राप्यनेकान्ते दहनादावदहनादेविरुद्धरूपस्य संभवात् स्वरूपाभावः स्यादित्यत्राह
गुणणिव्वत्तियसण्णा एवं दहणादओ वि दट्ठव्वा ।
जं तु जहा पडिसिद्धं दव्वमदव्वं तहा होइ ।।३०।। गुणेन दहनादिना निर्वर्तितोत्पादिता संज्ञाऽभिधानं येषां तेऽपि दहन-पवनादय एवमेवाऽनेकान्तात्मका द्रष्टव्याः । तथाहि-दाह्यपरिणामयोग्यं तृणादिकं दहतीति दहनः तदपरिणतिस्वभावं स्वात्माकाशाऽप्राप्त-वज्राऽण्वादिकं न दहतीति । तेन यद् द्रव्यं यथा दहनरूपतया प्रतिषिद्धं तद् अद्रव्यमदहनादिरूपम् तथा भजनाप्रकारेण स्याद् दहनः स्यान्नेति भवति ततो नाऽव्यापी अनेकान्तः ।
Jain Education International 2010_02
-For Private & Personal Use Only
www.jainelibrary.org