________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२९
यावद्विशेषाभावाधिकरणावच्छेदेनातिरिक्तो यत्किञ्चिद्विशेषाभावाधिकरणावच्छेदेन चानतिरिक्त इति गतिसामान्यवति विशेषरूपेण तत्सामान्याभावोऽपि न दुर्लभः । गतिमति गतित्वावच्छिन्नप्रतियोगिताकाभावनिषेधान्नैकान्तव्याघात इति चेत्, न, सामान्यरूपेण विशेषाभावमादायेत्थमपि वक्तुमशक्यत्वात्, गतित्वावच्छिन्नगतिसामान्यनिष्ठप्रतियोगिताकाभावेन सह गतिसामान्यविरोधैकान्त एवेति चेत्, न, सामान्यावच्छिन्नप्रतियोगिताकत्वस्याधिकरणविशेषावच्छेदेनैव सम्भवात्, तत्तदधिकरणान्तर्भावेन विरोधाविरोधयोरप्यनेकान्तस्यैव साम्राज्यात् । यदि च सामान्यावच्छिन्नप्रतियोगिताकोऽभावोऽतिरिक्त एव तदा द्रव्यविशेष रूपं न तु द्रव्यसामान्य इति प्रतीत्या सामान्यावच्छिन्नाधिकरणताकोऽप्यभावोऽतिरिक्तोऽभ्युपगन्तव्यः, तस्मादभावस्य सामान्याधिकरणकत्वस्य सामान्यप्रतियोगिताकत्वस्य स्वतः सामान्यविशेषभावस्य चानेकान्तक्रोडीकृतत्वाद्भावाभावयोर्विरोधाविरोधावपि तादृशावेवेत्यभिप्रायात् । एतेन ‘भावाभावसामान्ययोरेव विरोधकल्पनाद्भेदाभेदाद्यनेकान्तसमावेशोऽप्रामाणिकः' इत्यपास्तम्, विरोधस्यापि विशेषविश्रान्तत्वेन यथानुभवं गुणगुण्यादिभेदाभेदाद्यविरोधकल्पन एव लाघवादित्यधिक मत्कृतनयरहस्ये ।
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायां स्त.७, गा.३० एवं ‘गच्छति-तिष्ठति' इत्यादौ, ‘दहनाद् दहनः-पचनात् पचनः' इत्यादौ, ‘जीवद्रव्यमजीवद्रव्यं' चेत्यादावप्यन्वयव्यतिरेकव्याप्तिर्भावनीया, गतिस्थित्यादिपरिणतस्याप्यूर्ध्वगतिभूतलस्थितित्याद्यपेक्षयैव गति-स्थितिमत्त्वात्, अन्यथाऽभिप्रेतदेशप्राप्ति-स्थितिवदनभिप्रेतदेशप्राप्तिस्थित्योरपि प्रसङ्गात्, तथास्वभावसत्त्वे कारणाभावस्याऽप्रयोजकत्वात्, कारणसमाजेन तथास्वभावस्यैवाक्षेपात् अन्यथाऽतिप्रसङ्गात् । दहनादेरपि दाहादिपरिणामयोग्यापेक्षयैव दहनादित्वात, अन्यथा चाऽतथात्वात, अदहनस्याप्युदकादिद्रव्यस्य स्वयमदहनत्वेऽपि पृथिव्याद्यदहनव्यावृत्ततया कथञ्चिदतथात्वात्, समयाविरोधेन भजनाप्रवृत्तेः, जीवाऽजीवयोरपि कुम्भाद्यपेक्षया जीवापेक्षया चाऽतथात्वात्, अन्यथा सर्वस्य सर्वात्मकतापत्तेः । तदिदमाह
गइपरिणयं गई चेव केइ णिअमेण दविअमिच्छंति । तं पि अ उड्डगइअंतहा गई अण्णहा अगई ।। ३/२९ ।। गुणणिव्वत्तिअसण्णा एवं दहणादओ वि दट्ठव्वा । जं तु जहा पडिसिद्धं दव्यमदव्वं तहा होइ ।। ३/३० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org