________________
१७४
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२९
[ गतिमत्यपि द्रव्ये अपेक्षाविशेषेण गत्यगती प्रदानेकान्तस्य व्यापकत्वोपपादनम् ]
नन्वनेकान्तस्य व्यापकत्वे ‘गच्छति तिष्ठति' इत्यत्राऽप्यनेकान्तः स्यात्, तथाभ्युपगमे च तयोरभावप्रसक्तिरित्येतदेवाऽऽह
गइपरिणयं गई चेव केइ णियमेण दवियमिच्छंति ।
तं पि य उड्डगईयं तहा गई अनहा अगई ।।२९।। _ 'गतिक्रियापरिणामवद् द्रव्यं गतिमदेव' इति केचिद् मन्यन्ते, तदपि गतिक्रियापरिणतं जीवद्रव्यं सर्वतो गमनाऽयोगाद् ऊर्ध्वादिप्रतिनियतदिग्गतिकं तैर्वादिभिरभ्युपगन्तव्यम्; एवं च तत् तथा प्रतिनियतदिग्गमनेनैव गतिमत्; अन्यथाऽपि गतिमत् स्यात् तदाऽभिप्रेतदेशप्राप्तिवद् अनभिप्रेतदेशप्राप्तिरपि तस्य भवेदित्यनुपलभ्यमानयुगपद्विरुद्धोभयदेशप्राप्तिप्रसक्तेरत्राप्यनेकान्तो नाऽव्यापकः । अभिप्रेतगतिरेव तत्राऽनभिप्रेताऽगतिरिति चेत्, न; अनभिप्रेतगत्यभावाभावे प्रतिनियतगतिभाव एव न भवेत् तत्सद्भावे वा तदवस्थोऽनेकान्तः ।।२९ ।।
अनेकान्तव्यवस्थायां
अनेकान्तवादस्वरूपवर्णने प.८५ नन्वनेकान्तस्य व्यापकत्वे गच्छति तिष्ठतीत्यत्राप्यनेकान्तः स्यादिति चेत्, स्यादेवेत्याह
“गइपरिणयं गई चेव, केइ णियमेण दवियमिच्छंति ।
तं पि य उड्डगई, तहा गई अण्णहा अगई ।। ३/२९ ।।" गतिक्रियापरिणतं द्रव्यं गतिमदेवेति केचिन्मन्यन्ते, तदपि गतिक्रियापरिणतं जीवद्रव्यं सर्वतो गमनायोगादूर्ध्वादिप्रतिनियतदिग्गतिकं तैर्वादिभिरभ्युपगन्तव्यम्, एवं च तत्तथाप्रतिनियतदिग्गमनेन गतिमदन्यथा चाऽगतिमदेव, अन्यथापि यदि गतिमत्स्यात् तदाऽभिप्रेतदेशप्राप्तिवदनभिप्रेतदेशप्राप्तिरपि तस्य भवेदित्यनुपलभ्यमानयुगपद्विरुद्धोभयदेशप्राप्तिप्रसक्तिरित्यत्राप्यनेकान्तो नाव्यापकः, अभिप्रेतगतिरेव तत्रानभिप्रेतागतिरिति चेत्, न अनभिप्रेतगत्यभावाभावे प्रतिनियतगतिभावस्यैवाभावात्, तत्सद्भावे च तदवस्थोऽनेकान्तः । ननु गतिमदेवेत्येकान्तेन गतिसामान्यवति गतिसामान्याभावो निषिध्यते स च गतिविशेषाभावेन नापोद्यते, नहि विशेषाभाव एव सामान्यभाव इति कोऽयमनेकान्त इति चेत्, न, गतिसामान्यवत्यपि गतिविशेषाभावेन भावाभावोभयरूपतासमावेशादेवानेकान्तसाम्राज्यात् । न च विशेषाभावेभ्यः सामान्यभावोऽपि सर्वथातिरिक्तः, किन्तु
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org