________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२८
१७३
विरुद्धमेवाकलयामः । तदेवं विस्ताराज्ञारुचिभेदेन हेतुवादाहेतुवादयोर्व्यापकत्वं व्यवस्थितम्, आहरणतद्देशतदोषोपन्यासादिहेतुविस्तरस्तु मत्कृतोपदेशामृततरङ्गिणीतो बोध्यः, यथा तद्व्यापकत्वे निःशङ्कं चेतः स्यादित्युपरम्यते । व्यवहारतस्तु हेतुबहुलत्वात् प्रायो दृष्टिवादाख्य आगमो हेतुवादः, तदितरप्टााहेतुवाद उच्यते, तदपेक्षयाऽयं प्रज्ञापकविभागः सम्मतिसिद्धः
जो हेउवायपक्खम्मि हेउओ आगमे य आगमिओ ।
सो ससमयपण्णवओ सिद्धंतविराहगो अण्णो ।।१।।त्ति [३/४५] अन्यस्य विराधकत्वं च प्रतिपादकवचस्यनास्थादिदोषोत्पादनादिति बोध्यम् ।।७८ ।।
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायां स्त.७, गा.३० न चैवमनेकान्ते ‘षडेव जीवनिकायाः' इति श्रद्धानवतां सम्यक्त्वभङ्गः, विभागवाक्याद् न्यूनताऽलाभेऽनेकान्तव्याघाताद् मिथ्यात्वापत्तेरिति वाच्यम्; भावतस्तेषामनेकान्तपरिज्ञानशून्यानामसम्यग्दष्टित्वादेव, जीवराश्यपेक्षया तेषां कायानामपि पुद्गलतया जीव-पुद्गलप्रदेशानां च परस्पराऽविनिर्भागवृत्तितयैकत्वस्याऽश्रद्धानात् । द्रव्यत एव च ‘भगवतैवमुक्तम्' इति जिनवचनरुचिस्वभावत्वेन सम्यग्दृष्टित्वात् । तदुक्तम्
णिअमेण सद्दहतो छक्काए भावओ ण सद्दहइ । हंदी अपजवेसु वि सद्दहणा होइ अविभत्ता ।। ३/२८ ।। इति ।
-: अध्यात्मसारे :
षष्ठे वैराग्यभेदाधिकारे एकान्तेन हि षट्काय-श्रद्धानेऽपि न शुद्धता । सम्पूर्णपर्ययालाभाद्, यन्न याथात्म्यनिष्टायः ।।२२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org