________________
१७२
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२८
“अणभिग्गहियकुदिट्ठी, संखेवरुइत्ति होइ णायव्यो ।
अविसारओ पवयणे, अणभिग्गहिओ य सेसेसु" ।। २६ ।। त्ति । ततोऽपर्यायेष्वपि न विद्यन्तेऽचिमुर्मुरादयो विवक्षितपर्याया येषु पुद्गलेषु तेष्वप्यविभक्तश्रद्धानं यत्तदपि भावत एव भवेदर्चिष्मानयं भावो भूतो भावी वेति, न हि भूतभाविपर्यायोपरक्तवाक्यं द्रव्यतः सत्यं भवति, सविशेषेण' इति न्यायाद् भूतभाविपर्यायध्वंसप्रागभावावगाहित्वात्, तत्र द्रव्यतः सत्यत्वमिति चेत्, न तथापि धर्माशे द्रव्यतोऽविभक्तस्यापि धर्म्यंशे विभक्तस्य प्रत्ययस्य भावत एव सम्भवात्, तन्नात्राप्यव्यापकोऽनेकान्तवादः ।।
वस्तुतो नियमेन षट् कायान् श्रद्दधद्भावतो न सम्यग्दृष्टिरित्यत्रैव हेतुरयम्, हन्दि यतः अपर्यायेषु एकादिप्रकाररहितेषु षट्सु कायेषु श्रद्धाऽविभक्ता भवति स्याद्वादज्ञानपरिसमाप्याकाङ्क्षापरिपूर्त्याऽविश्रान्ता भवति
“एगविहदुविहतिविहा”–इत्यादिप्ररूपणयैव तद्विश्रान्तिसम्भवादित्ययमर्थोऽनुभवसम्मुखीन इति ध्येयम् ।
-: अष्टसहसीतात्पर्यविवरणे :
परि. ६, का. ७७-७८ तदाह सम्मतौ महावादी
नियमेण सद्दहंतो छक्काए भावओ ण सद्दहइ ।
हंदी अपज्जवेसु वि सद्दहणा होइ अविभत्ता ।। [३/२८] अस्या अर्थः-नियमेन षडेवेत्यवधारणेन षटकायान् श्रद्दधदपि भावतो न श्रद्धत्ते, प्रकृतधर्मघटितसप्तभङ्गपर्याप्तप्रकारताकबोधादिजनितसमूहालम्बनरुचेरेव प्रकृतधर्मभावश्रद्धापदार्थत्वात्, तदाह-अपर्यायेषु भङ्गान्तरसंवलनरहितेषु धर्मेषु, अपेभिन्नक्रमत्वात् श्रद्धाऽप्यविभक्ताऽसम्पूर्णा भवति, द्रव्यश्रद्धापर्यवसन्ना भवतीति यावत् । अयमस्माकं मनीषोन्मेषः । अन्ये त्वेवमुत्तरार्द्ध व्याचक्षते- हन्दि यतोऽपर्ययेष्वविवक्षितपर्यायेषु पुद्गलेष्वपि श्रद्धाऽविभक्ता एकरूपा भवतीति, तथा च पूर्वोत्तराद्धाभ्यां जीवपुद्गलयोः सामान्यत एकरूपत्वोपदर्शनात्तदुभयघटितनिकायषट्कैकान्तबाधात्तच्छ्रद्धानस्य द्रव्यसम्यक्त्वरूपत्वमेव जिनवचनाभिनिवेशदशायाम्, स्वाभिनिवेशदशायां तु शुद्धात्मस्वरूपबाधनेन तन्मात्रविश्रान्तान्तरङ्गरत्नत्रयबाधनान्मिथ्यात्वरूपत्वमेवेति तदभिप्रायमप्य
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org