________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२८
१७१
[ षड् जीवनिकायास्तदघाते च धर्म इत्यत्राप्यनेकान्तव्यवस्थापनम् ] नन्वनेकान्तस्य व्यापकत्वे ‘षड् जीवनिकायाः' 'तदघाते वा धर्मः' इत्यत्राप्यनेकान्त एव स्यादित्याशङ्कयाऽऽह
णियमेण सद्दहंतो छक्काए भावओ न सद्दहइ ।
हंदी अपज्जवेसु वि सद्दहणा होइ अविभत्ता ।।२८।। नियमेनाऽवधारणेन ‘षडेवैते जीवाः कायाप्टा' इत्येवं श्रद्दधानः षट्कायान् भावतः परमार्थतो न श्रद्धत्ते जीवराश्यपेक्षया तेषामेकत्वात् कायानामपि पुद्गलतयैकत्वात् जीवपुद्गलप्रदेशानां परस्पराविनिर्भागवृत्तित्वाञ्च जीवप्रदेशानां स्याद् अजीवत्वम् प्रत्येक प्राधान्यविवक्षया स्याद् अनिकायत्वम् सूत्रविहितन्यायेन प्रवृत्तस्याऽप्रमत्तस्य 'हिंसाऽप्यहिंसा' इति ‘तप्टाते स्यादधर्मः' इति । न भावसम्यग्दृष्टिरसौ स्यात्, द्रव्यसम्यग्दृष्टिस्तु स्यात् 'भगवतैवमुक्तम्' इति जिनवचनरुचिस्वभावत्वात् । ततोऽपर्यायेष्वपि न विद्यन्ते अर्चिमुर्मुरादयो विवक्षितपर्याया येषु पुद्गलेषु तेष्वपि अविभक्तश्रद्धानं यत् तदपि भावत एव भवेत्'अर्चिष्मानयं भावो भूतो भावी वा' इति । तन्नाऽव्यापकोऽनेकान्तवादः ।।२८ ।।
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प.८४ नन्वनेकान्तस्य व्यापकत्वे ‘षड्जीवनिकायास्तष्टाते चाधर्म' इत्यत्राप्यनेकान्तः स्यादिति चेत्, अत्राहु:
“णियमेण सद्दहंतो छक्काए भावओ ण सद्दहइ ।
हंदी अपज्जवेसु वि, सद्दहणा होइ अविभत्ता ।। ३/२८ ।।" नियमेनावधारणेन षडेवैते जीवाः कायाप्टोत्येवं श्रद्दधानः षट्कायान्भावतः परमार्थतो न श्रद्धत्ते, जीवराश्यपेक्षया तेषामेकत्वात्कायानामपि पुद्गलतयैकत्वात्, जीवपुद्गलप्रदेशानां परस्पराऽविनिर्भागवृत्तित्वाज्जीवप्रदेशानां स्यादजीवत्वम्, प्रत्येकं प्राधान्यविवक्षया स्यादनिकायत्वं सूत्रविहितन्यायेन प्रवृत्तस्याप्रमत्तस्य न हिंसेति, तष्टातेऽपि स्यादधर्म इति न भावसम्यग्दृष्टिरसौ, द्रव्यसम्यग्दृष्टिस्तु स्यादेवान्यदर्शनासद्ग्रहनिवृत्त्या जिनवचनरुचिस्वभावस्य संक्षेपसम्यक्त्वलक्षण-त्वात्, तथा च पारम) [उत्तरा०अ०२८]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org