________________
१७०
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२७
दकस्यैव लाभात, तेनानन्तधर्मकत्वापरामर्शः, न चेदेवं तदाऽनेकान्ते सम्यगेकान्तप्रवेशानुपपत्तिरवच्छेदकभेदं विना सप्रतिपक्षविषयसमावेशस्य दुर्वचत्वात्, इष्यते चायम्, यदाह महामतिः -
"भयणा वि हु भइयव्वा जह भयणा भयइ सव्वदव्वाइं । एवं भयणानियमो वि होइ समयाविराहणया ।। ३/२७ ।। इति" ।।
-: उपदेशरहस्ये :
गाथा १०१ “ऐतेहिं दोहिं ठाणेहिं ववहारो ण विज्जइ । एतेहिं दोहिं ठाणेहिं अणायारं तु जाणए ।।३।। 'सर्वं नित्यमेवानित्यमेव वा' एताभ्यां द्वाभ्यां स्थानाभ्यामभ्युपगम्यमानाभ्यामनयोर्वा पक्षयोर्व्यवहारो लोकस्यैहिकामुष्मिकयोः कार्ययोः प्रवृत्तिनिवृत्तिलक्षणयोर्न विद्यते । एकान्तनित्यत्वे घटाद्यर्थं कुम्भकारादेर्मोक्षाद्यर्थं तपस्विप्रभृतीनां च प्रवृत्त्यनुपपत्तेः, एकान्ताऽनित्यत्वेऽपि लोकानामनागतभोगार्थं धनधान्यादिसंग्रहार्थं मुमुक्षूणां च मोक्षार्थं प्रवृत्त्यनुपपत्तेरेव, नित्यानित्यत्वयोः प्रतिनियताश्रयत्ववादेऽप्येकत्र मृदादौ स्थासकुशूलघटाधनेककार्यार्थप्रवृत्तेरनुपपत्तेरेकस्यानेकपरिणामित्वविरोधात्, अत एतयोः स्थानयोरेकान्तत्वेनाश्रीयमाणयोरनाचारं मौनीन्द्रागमबाह्यत्वरूपं जानीयात् । 'तु'शब्दो विशेषणार्थः, 'कथञ्चिन्नित्यानित्ये वस्तुनि व्यवहारो युज्यते' इत्येतद्विशिनष्टि, एकांशमादाय नयव्यवहारस्योभयमादाय च प्रमाणव्यवहारस्योपपत्तेः । न चैवमपि स्यान्नित्यमेव स्यादनित्यमेवेति च प्राप्तम्, तत्राप्येवकारार्थावधारणबलाद् येनाकारेण नित्यत्वं तेन नित्यत्वमेवेत्येकान्तत्वापत्तिरिति शङ्कनीयम्, अनित्यत्वासंवलितस्य नित्यत्वव्यवच्छेदस्याप्रसिद्धेः, तत्संवलितस्य च तस्य सत्त्वे किञ्चिदपेक्षया एकान्तसंवलितानेकान्तानपायात्, तथा चाह सम्मतिकारः
"भयणावि हु भइयव्वा जह मयणा भयइ सव्वदव्वाई । एवं भयणानियमो वि होइ समयाविराहणया ।।" (३-२७)
1. न्याविरोहेण (संमति.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org