________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२७
१६९
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायां स्त.७, गा. २ न च शोकादिकं निर्हेतुकमिति वक्तुं युक्तम्, नित्यं सत्त्वस्याऽसत्त्वस्य वा प्रसङ्गात् । न च युष्माकमपि तत्र घटमुकुटोभयार्थिना युगपच्छोकप्रमोदोत्पाद इति वाच्यम्, एकत्रोभयार्थिप्रवृत्त्ययोगात् । एकत्र देशे तत्प्रवृत्तौ चोभयस्य कथञ्चित्प्रत्येकातिरेकेण दोषाभावात्, येन रूपेण यत्रेच्छा तेन रूपेण तन्नाशो-त्पाद-स्थितिज्ञानानामेव शोक-प्रमोद-माध्यस्थ्यहेतुत्वात्, अनेकान्तस्याप्यनेकान्तानुविद्वैकान्तगर्भत्वात् । तदुक्तम्
"भयणा वि हु भइयव्वा जह भयणा भयइ सव्वदव्वाइं । एवं भयणा नियमो वि होइ समयाविराहणया ।।" ३/२७ ।। इति ।
-: गुरुतत्त्वविनिश्चये :
उ. १ गा. ५२ तथा च सिद्धव्याख्याता न्यायावतारविवृतौ स्यादस्त्येव जीव इति प्रमाणवाक्यमुपन्यस्तवान्, तथा च तद्गतो ग्रन्थः
“यदा तु प्रमाणव्यापारमविकलं परामृश्य प्रतिपादयितुमभिप्रयन्ति तदाङ्गीकृतगुणप्रधानभावाशेषधर्मसूचककथञ्चित्पर्यायस्याच्छब्दविभूषितया सावधारणया च वाचा स्यादस्त्येव जीव इत्यादिकया दर्शयन्ति । अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्यां प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसम्भवस्य वस्तुनः संदर्शकत्वात्सकलादेश इत्युच्यते, प्रमाणप्रतिपन्नसम्पूर्णार्थकथनमिति यावदित्यादि ।"
तस्मादस्मदुक्तैव प्रमाणनयव्यवस्था समीचीना, यथा यो नाम नयो नयान्तरसापेक्षः स परमार्थतः स्यात्पदप्रयोगमभिलषन् सम्पूर्ण वस्तु गृह्णातीति प्रमाणेऽन्तर्भावनीयः । नयान्तरनिरपेक्षस्तु नयो दुर्नयः, स च नियमान्मिथ्यादृष्टिरेव, सम्पूर्णवस्तुग्राहकत्वाभावादिति ।"
अत्रेदमवधेयम्-यो नाम नयो नयान्तरापेक्षस्तस्य प्रमाणान्तर्भाव व्यवहारनयः प्रमाणं स्यात्, तस्य तपःसंयमप्रवचनग्राहकत्वेन संयमग्राहिनिष्टायविषयविषयकत्वेन तत्सापेक्षत्वात् । शब्दनयानां च निक्षेपचतुष्टयानभ्युपगन्तॄणां भावाभ्युपगन्तृशब्दनयविषयविषयकत्वेन तत्सापेक्षत्वात्प्रमाणत्वापत्तिः । नयान्तरवाक्यसंयोगेन सापेक्षत्वे च ग्राह्ये स्यात्पदप्रयोगेण सप्रतिपक्षनयद्वयविषयावच्छे
1. व्याविरोहण (संमति.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org