SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १६८ संमतितर्कप्रकरणे, काण्ड-३, गाथा-२७ -: अनेकान्तव्यवस्थायां : अनेकान्तवादस्वरूपवर्णने प.८३ ननु सर्वत्राऽनेकान्त इति नियमेऽनेकान्तेऽप्यनेकान्तादेकान्तप्रसरिक्तिरिति चेत्, अत्र वदन्ति “भयणा वि हु भइयव्वा, जह भयणा भयइ सव्वदव्वाइं । एवं भयणाणियमो वि, होइ समयाविराहणया' ।।३/२७ ।।" “यथा भजनाऽनेकान्तो भजते सर्ववस्तूनि तदेतत्स्वभावतया ज्ञापयति, तथा भजनाप्यनेकान्तोऽपि, भजनीया अनेकान्तोऽप्यनेकान्त इतीष्टमस्माकं इति नयप्रमाणापेक्षयैकान्तष्टानेकान्तप्टोत्येवमसौ ज्ञापनीयः, तथाहि नित्यानित्यादिशबलैकस्वरूपे वस्तुनि नित्यत्वानित्यत्वावाधेकतरधर्मावच्छेदनैकतरधर्मात्मकत्वमुभयावच्छेदेन वोभयात्मकत्वं तथा नित्यानित्यत्वादिसप्तधर्मात्मकत्वप्रतिपादकतत्पर्याप्त्यधिकरणेऽनेकान्तमहावाक्येऽपि सकलनयवाक्यावच्छेदेनोक्तरूपमनेकान्तात्मकत्वं प्रत्येकनयवाक्यावच्छेदेन चैकान्तात्मकत्वं न दुर्वचमिति भावः । एतदेवाह एवमुक्तरीत्या, भजनाऽनेकान्तः सम्भवति, नियमष्टौकान्तप्टा, समयस्य सिद्धान्तस्य–“रयणप्पभा सिय सासया सिय असासया” – इत्येवमनेकान्तप्रतिपादकस्य-“दव्वट्ठयाए सासया पज्जवट्ठयाए असासया” — इत्येवं चैकान्तभिधायकस्याविरोधेन । न चैवमव्यापकोऽनेकान्तवादः, स्यात्पदसंसूचितानेकान्तगर्भस्यैवैकान्तस्वभावत्वादनेकान्तस्यापि स्यात्कारलाञ्छनैकान्तगर्भस्यानेकान्तस्वभावत्वात् । न चानवस्था देशकात्ाभ्यामवयवावयविरूपस्य वस्तुन इव स्याद्वादस्याप्येकान्तानेकान्तात्मकस्यैव प्रमाणादेव प्रतीतेः, भिन्नैकान्ताऽनेकान्तावलम्बनेऽप्यस्या ज्ञप्तिविरोधित्वाभावात्स्वसामग्रीमहिम्ना तादृशस्यैवोत्पत्तेर्मिथोऽनपेक्षणादुत्पत्तिविरोधिताया अपि वक्तुमशक्यत्वात्, न चोत्पत्तिज्ञप्त्यन्यतराप्रतिबन्धिकाप्यनवस्था दूषणम्, यत्तार्किकाः-“मूलक्षयकरी प्राहुरनवस्थां हि दूषणम् ।” इति, न चेदेवं तदा प्रमेयत्वे प्रमेयत्वाद्युपगमेऽप्यनवस्थादोषो दुर्निवारः स्यात्, यद्वा यथा नैयायिकादीनां 'घटाभावोऽतिरिक्त एव, तदभावष्टा घट एव, तृतीयाभावष्टाद्य एव, चतुर्थप्टा द्वितीय एव' इत्यादिरीत्या नानवस्था तथाऽस्माकं अनेकान्तः१, अनेकान्तानेकान्त एकान्तः२, तदनेकान्त आद्य एव, तदनेकान्तप्टा द्वितीय एवेति तृतीयचतुर्थाद्यनेकान्तानामाद्यद्वितीययोरेव पर्यवसानात्काऽनवस्था नाम । एकान्तनियामकस्वपरूपयोरनवस्थानादेकान्तगर्भानेकान्तस्य परिज्ञातुमशक्यत्वाज्झप्तिप्रतिबन्धिकैवेयमनवस्थेति कष्टिात्, तन्न, इत्थमपि 'गुडशुण्ठी' न्यायेनानवच्छिन्नानेकान्ते दोषाभावात् । सावच्छिन्नानेकान्तवादेऽपि सूक्ष्मावच्छेदकजिज्ञासोपरम एवानेकान्तप्रयोगान्तरपरिश्रमोपरमेऽनवस्थानवकाशादिति दिग् ।। 1. व्याविरोहेण (संमति.) । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy