________________
संमतितर्कप्रकरणे, काण्ड - ३, गाथा - २७
श्रयणात्, तदेवान्यदेवेति वा मन्यमाना मननीयमेवावमन्यमाना वादिनोऽभ्युपगतविषयावज्ञाविधायित्वादज्ञा भवन्ति, अभ्युपगमनीयवस्त्वस्तित्वप्रतिपादकोपायनिमित्तापरिज्ञानान्मृषावादिवदिति तात्पर्यार्थः । ततोऽनेकान्तवाद एव व्यवस्थितः ।।
[ अनेकान्तस्य व्यापकतां प्रदर्शयितुमनेकान्तेऽप्यनेकान्ताभ्युपगमनम् ] ननु 'सर्वत्रानेकान्तः' इति नियमे अनेकान्तेऽप्यनेकान्ताद् एकान्तप्रसक्तिः । अथ नानेकान्ते अनेकान्तवादस्तर्हि अव्यापकोऽनेकान्तवाद इत्यत्राह
भयणा विहु भइयव्वा जह भयणा भयइ सव्वदव्वाइं । एवं भयणा नियमो वि होइ समयाविरोहेण ।। २७ ।।
यथा भजना अनेकान्तो भजते सर्ववस्तूनि तदतत्स्वभावतया ज्ञापयति तथा भजनाऽपि अनेकान्तोऽपि भजनीयः अनेकान्तोऽप्यनेकान्त इत्यर्थः-नय- प्रमाणापेक्षया 'एकान्तथाऽनेकान्तष्टा' इत्येवं ज्ञापनीयः । एवं च भजनाऽनेकान्तः संभवति, नियमष्टा एकान्तष्टा सिद्धान्तस्य " रयणप्पभा सिआ सासया सियाऽसासया” [ जीवाजीवाभि० प्रतिप० ३ उ० १ सू० ७८ ] इत्येवमनेकान्तप्रतिपादकस्य “ दव्वट्टयाए सासया, पज्जवट्टयाए असासया” ] इत्येवं चैकान्ताभिधायकाविरोधेन ।
[
१६७
न चैवमव्यापकोऽनेकान्तवादः, 'स्यात् 'पदसंसूचितानेकान्तगर्भस्यैकान्तस्य तत्त्वात् अनेकान्तस्यापि ‘स्यात्’कारलाञ्छनैकान्तगर्भस्य अनेकान्तस्वभावत्वात् । न चानवस्था, अन्यनिरपेक्षस्वस्वरूपत एव तथात्वोपपत्तेः यद्वा स्वरूपत एवानेकान्तस्यैकान्तप्रतिषेधेनानेकान्तरूपत्वात् ‘स्यादेकान्तः' 'स्यादनेकान्तः' इति कथं नानेकान्तेऽनेकान्तोऽपि । अनेकान्तात्मकवस्तुव्यवस्थापकस्य तद्व्यवस्थापकत्वं स्वयमनेकान्तात्मकत्वमन्तरेणाऽनेकान्तस्याऽनुपपन्नमिति न तत्राऽव्यापकत्वादिदोष इत्यसकृदावेदितमेव । । २७।।
1. ० याविराहणया (अने. व्य., स्या. कल्प., गुरु विनि., उप. रह . ) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org