SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १६६ संमतितर्कप्रकरणे, काण्ड-३, गाथा-२६ -: तत्त्वार्थाधिगमसूत्रे : महामहो.यशोविजयजीकृतविवरणे अ.१, सू.३५ उत्सर्गतो हि पारमेश्वरप्रवचनपरिणतबुद्धीनां स्याद्वादाभिधानमेवोचितं परिपूर्णवस्तुप्रतिपादकत्वात्, तद्व्युत्पत्त्यर्थितया तु शिष्याणामंशग्राहिषु नयवादेष्वप्यपवादतः प्रवृत्तिरुचितैव । “अशुद्ध वर्त्मनि स्थित्वा, ततः शुद्धं समीहत” इत्यादिन्यायादिति भावः । तदिदमाह-सम्मतौ महावादी “सीसमईविष्फारणमेतत्थोयं कओ समुल्लावो । इहरा कहामुहं चेव, णत्थि एवं ससमयंमि ।। ३/२५ ।।" इति ।। [ वस्तुत्वे कथंचिद् भेदाभेदात्मके व्यवस्थितेऽपि तदन्यथावादिनां मिथ्यादृष्टित्वकथनम् ] एवंरूपे च वस्तुतत्त्वे अन्यथारूपं तत् प्रतिपादयन्तो मिथ्यावादिनो भवन्तीत्याह ण वि अस्थि अण्णवादो ण वि तव्वाओ जिणोवएसम्मि । तं चेव य मण्णंता अवमण्णंता ण याणंति ।।२६।। नैवास्ति अन्यवादो गुण-गुणिनोः, नाप्यनन्यवादो जिनोपदेशे द्वादशाङ्गे प्रवचने सर्वत्र कथंचिदित्याश्रयणात् । तदेव अन्यदेवेति वा मन्यमानाः मननीयमेव अवमन्यमाना वादिनोऽभ्युपगतविषयावज्ञाविधायित्वाद् अज्ञा भवन्ति अभ्युपगमनीयवस्त्वस्तित्वप्रतिपादकोपायनिमित्तापरिज्ञानाद् मृषावादिवदिति तात्पर्यार्थः । ततोऽनेकान्तवाद एव व्यवस्थितः ।।२६ । । -: अनेकान्तव्यवस्थायां : अनेकान्तवादस्वरूपवर्णने प.८३ एवंरूपे च वस्तुतत्त्वेऽन्यथारूपं तत्प्रतिपादयन्तो मिथ्यावादिनो भवन्तीत्याह ___ “ण वि अत्थि अण्णवाओ, ण वि तव्याओ जिणोवएसम्मि । तं चेव य मण्णंता अवमण्णंता ण याणंति ।। ३/२६ ।।" नैवास्त्यन्यवादो गुणगुणिनो प्यनन्यवादो जिनोपदेशे द्वादशाङ्गे प्रवचने, सर्वत्र कथञ्चिदित्या 2. एवं (संमति.) । ___JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy