________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२५
[ प्रस्तुतप्रपञ्चस्य शिष्यबुद्धिवेशद्यमात्रप्रयोजनकत्वकथनम् ]
ततः
सीसमईविप्फारणमेत्तत्थोऽयं कओ समुल्लावो ।
इहरा कहामुहं चेव णत्थि एवं ससमयम्मि ।।२५।। शिष्यबुद्धिविकाशनमात्रार्थोऽयं कृतः प्रबन्धः, इतरथा कथैवैषा नास्ति स्वसिद्धान्ते 'किमेते गुणा गुणिनो भिन्नाः, आहोस्विद् अभिन्नाः' इति, अनेकान्तात्मकत्वात् सकलवस्तुनः ।।२५ ।।
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प.८३ एतदाह
"सीसमईविष्फारणमेत्तत्थोयं कओ समुल्लावो ।
इहरा कहामुहं चेव, णत्थि एवं ससमयम्मि ।। ३/२५ ।।" शिष्यबुद्धिविकासनमात्रार्थोऽयं कृतः प्रबन्धः, इतरथा कथैवैषा नास्ति स्वसिद्धान्ते, किमेते गुणा गुणिनो भिन्ना आहोस्विदभिन्ना ? इति, ‘अनेकान्तात्मकत्वात्सकलवस्तुनः ।
-: नयोपदेशे :
गा.
६
ननु तथाप्युत्सर्गतोऽनादरणीयत्वादेव नय-दुर्नयभाषयोरविशेषः, तथा चोक्तं वादिना- [सम्मतौ]
“सीसमइविष्फारणमेत्तत्थोऽयं कओ समुल्लावो ।
इहरा कहामुहं चेव णत्थि एवं ससमयंमि" ।। ३/२५ ।। इति चेत्, न-शिष्यमतिविष्फारकत्वं हि नयवाक्यस्य प्रमाणात्मकमहावाक्यजन्यशाब्दबोधजनकावान्तरवाक्यार्थज्ञानजनकत्वम्, तदनुकूलाकाङ्क्षोत्थापकत्वं वा, तेन तस्यादरणीयत्वस्यैव सिद्धेः ।
1. एयं (नयो., तत्त्वा. यशो.कृतविव.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org