________________
१६४
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२४
द्रव्यस्य लक्षणं स्थितिः, जन्मविगमी लक्षणं गुणानामेवं सति केवलिनो युज्यत एतल्लक्षणम्, तत्र किल केवलात्मना स्थित एव चेतनाचेतनारूपा अन्येऽर्था ज्ञेयभावेनोत्पद्यन्ते, अज्ञेयरूपतया च नश्यन्ति, न तु द्रव्यस्याण्वादेर्लक्षणमिदं युज्यते, न ह्यणौ रूपादयो जायन्ते अत्यन्तभिन्नत्वाद् गव्यश्वादिवत्, अथवा केवलिनोऽपि सकलज्ञेयग्राहिणो नैतल्लक्षणं युज्यते, न चापि द्रव्यस्याचेतनस्य, गुणगुणिनोरत्यन्तभेदेऽसत्त्वापत्तेरसतोप्टा खरविषाणादेरिव लक्षणासम्भवादिति द्रव्यार्थान्तरभूतगुणवादिनः ।
दव्वत्थंतरभूया मुत्ताऽमुत्ता य ते गुणा होज्ज ।
जइ मुत्ता परमाणू णत्थि अमुत्तेसु अग्गहणं ।।२४।। द्रव्यार्थान्तरभूतगुणवादिनो द्रव्यादर्थान्तरभूतगुणा मूर्ताः, अमूर्ता वा भवेयुः ? यदि मूर्ताः परमाणवो न तर्हि परमाणवो न भवन्ति, मूर्तिमद्रूपाद्याधारत्वात् अनेकप्रादेशिकस्कन्धद्रव्यवत् । अथामूर्ताः, अग्रहणं तेषाम् अमूर्तत्वात् आकाशवत् । ततो द्रव्य-गुणयोः कथंचिद् भेदाभेदावभ्युपगमनीयौ अन्यथोक्तदोषप्रसक्तेः । तथाहि-द्रव्य-गुणयोः कथंचिद् भेदः यथाक्रममेकानेकप्रत्ययावसेयत्वात, कथंचिदभेदोऽपि रूपाद्यात्मना द्रव्यस्वरूपस्य रूपादीनां च द्रव्यात्मकतया प्रतीतेः; अन्यथा तदभावापत्तेः ।।२४ ।।
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प.८३ अत्रोत्तरम्
“दव्वत्थंतरभूया, मुत्तामुत्ता य(व) ते गुणा होज्जा ।
जइ मुत्ता परमाणू, णत्थि अमुत्तेसु अग्गहणं ।। ३/२४ ।।" द्रव्यार्थान्तरभूता गुणा मूर्ता अमूर्ता वा भवेयुः, यदि मूर्ता न तर्हि परमाणवो भवन्ति, मूर्तिमद्रूपाद्याधारत्वाद्, अनेक प्रादेशिकस्कन्धवत्, अथामूर्ताः, अग्रहणं तेषां अमूर्त्तत्वादाकाशवत् । ततो द्रव्यगुणयोः कथञ्चिद्भेदाभेदावभ्युपगमनीयौ, अन्यथा प्रतीतिविरोधात् । तथाहि-द्रव्यगुणयोर्यथाक्रममेकानेकप्रत्ययावसेयत्वात्कथञ्चिद्भेदः प्रतीयते, कथञ्चिदभेदोऽपि रूपाद्यात्मना द्रव्यस्वरूपस्य रूपादीनां च द्रव्यात्मकतया प्रतीतेः, अन्यथा तदभावापत्तेः, एतञ्च विवक्षामात्रेणोच्यतेऽन्यथा जात्यन्तरात्मके वस्तुनि भेदाभेदादन्यतरकथाया एवासम्भवात्, न हि चित्रं वस्तु नीलपीताद्यन्यतरतया कथ्यते चर्च्यते वा, एकतरजिज्ञासया केवलं तथा प्रतीयत इति ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org