________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२३
१६३
शीतोष्णस्पर्शवदेकत्रैकदा विरोधाद्भण्यते एकत्राम्रफलादौ विषमपरिणतिः कथं भवतीति परेण प्रेरिते, उपनीतं प्रदर्शितमाप्तेन तद्वैषम्यं भवति परनिमित्तं द्रव्यक्षेत्रकालभावानां सहकारिणां वैचित्र्यात्तदाम्रादिवस्तु विषमरूपतया परिणमतीति वैषम्यं परनिमित्तमित्यर्थः, न च परनिमित्तमेवेत्यत्राप्येकान्तोऽस्ति, स्वरूपस्यापि तत्र कथञ्चिन्निमित्तत्वाद्, अन्यथा द्विगुणरसादीनां देशनियमानुपपत्तेः, विरोधष्टा कालभेदेन वा निरसनीयः, न चैकत्रैव प्रदेशे द्विगुणरसादित्वे एकगुणरसादिद्वयसमावेशाद्विरोधः सम्भावनीयः, एकैकगुणापेक्षया द्विगुणपर्यायवतो रसस्य प्रत्येकातिरिक्तत्वेनाविरोधात्, अत एव परापेक्षया षट्स्थानपतितत्वमप्यविरुद्धम्, आपेक्षिकधर्मयोईस्वत्वदीर्घत्वयोरिव विरोधासिद्धेरिति दिग् । तन्न द्रव्याद्वैतैकान्तः सम्भवी ।। [ प्रागुक्तस्य लक्षणस्य बाधाद् भेदैकान्तवादिना द्रव्य-गुणयोर्लक्षणान्तराभिधानम्
अभेदैकान्तवादिना च विकल्प्य तद्दूषणम् ] द्रव्य-गुणयोर्भेदैकान्तवादिना प्राक् प्रदर्शिततल्लक्षणस्यैकत्वप्रतिपत्त्यध्यक्षबाधितत्वाद् लक्षणान्तरं वक्तव्यम् तदाह
दव्वस्स ठिई जम्म-विगमा य गुणलक्खणं ति वत्तव्वं ।
एवं सइ केवलिणो जुज्जइ तं णो उ दवियस्स ।।२३।। द्रव्यस्य लक्षणं स्थितिः, जन्म-विगमी लक्षणं गुणानाम्, एवं सति केवलिनो युज्यत एतल्लक्षणम्-तत्र किल केवलात्मना स्थिते एव चेतनाचेतनरूपा अन्ये अर्था ज्ञेयभावेनोत्पद्यन्ते, अज्ञेयरूपतया च नश्यन्ति । न तु द्रव्यस्याण्वादेर्लक्षणमिदं युज्यते, न हि अणौ रूपादयो जायन्ते अत्यन्तभिन्नत्वात् गव्यश्वादिवत् । अथवा केवलिनोऽपि सकलज्ञेयग्राहिणो नैतल्लक्षणं युज्यते । न चापि द्रव्यस्य अचेतनस्य, गुण-गुणिनोरत्यन्तभेदे असत्त्वापतेः असतोप्टा खरविषाणादेरिव लक्षणासंभवादिति ।।२३ ।।
-: अनेकान्तव्यवस्थायां :
___ अनेकान्तवादस्वरूपवर्णने प.८३ अथ द्रव्यगुणयोर्भेदैकान्तवादिनो द्रव्यगुणलक्षणानुपपत्तिमुद्भावयन्ति
“दव्वस्स ठिई जम्मविगमा य गुणलक्खणं ति वत्तव्वं । एवं सइ केवलिणो, जुजइ तं णो उ दवियस्स ।। ३/२३ ।।"
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org