________________
१६२
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२२
-: अनेकान्तव्यवस्थायां :अनेकान्तवादस्वरूपवर्णने प.८२
सिद्धान्तवाद्याह
जुजइ सम्बन्धवसा, सम्बन्धिविसेसणं ण उण एयं ।
नय(रस)णाइ विसेसकओ, रूवा(रसा)इ विसेसपरिणामो ।। ३/२१ ।।" सम्बन्धविशेषाद् युज्यते सम्बन्धिविशेषो, यथा दण्डादिसम्बन्धविशेषजनितसम्बन्धविशेषसमासादितपुरुषादिसम्बन्धिविशेषोऽवगतः, द्रव्याद्वैतवादिनस्तु न सम्बन्धिविशेषो नापि सम्बन्धविशेषः सङ्गच्छत इति कुतो रसनादिविशेषसम्बन्धजनितो रसादिविशेषपरिणामः ? ।। [ अनेकान्तवादे अनन्त-द्विगुणादिवैषम्यपरिणतिः कथं घटते इत्याशङ्का तन्निरासष्टा ] नन्वनेकान्तवादिनोऽपि रूप-रसादेरनन्त-द्विगुणादिवैषम्यपरिणतिः कथमुपपन्ना ? इत्याह
भण्णइ विसमपरिणयं कह एयं होहिइ त्ति उवणीयं ।
तं होइ परणिमित्तं ण व त्ति एत्थऽत्थि एगंतो ।।२२।। शीतोष्णस्पर्शवदेकत्रैकदा विरोधाद् भण्यते ‘एकत्र आम्रफलादौ विषमपरिणतिः कथं भवति' इति परेण प्रेरिते उपनीतं प्रदर्शितमाप्तेन-तद् भवति परनिमित्तम् द्रव्य-क्षेत्र-कालभावानां सहकारिणां वैचित्र्यात् कार्यमपि वैचित्र्यमासादयति-तद् आम्रादि वस्तु विषमरूपतया परनिमित्तं भवति, न वा ‘परनिमित्तमेव' इत्यत्राप्येकान्तोऽस्ति, स्वरूपस्यापि कथंचिन्निमित्तत्वात् । तन्न द्रव्याद्वैतैकान्तः संभवी ।।२२ ।।
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प.८३ नन्वनेकान्तवादिनोऽपि रूपरसादेरनन्तगुणद्विगुणादिवैषम्यपरिणतिः कथमुपपन्नेत्याशङ्कायामाह
“भण्णइ विसमपरिणयं(ई) कह एयं होहिइ त्ति उवणीयं । तं होइ परणिमित्तं, ण व त्ति पत्थित्थ एगंतो ।। ३/२२ ।।"
1. णत्थित्थ (अने. व्य.) । 2. एत्थऽत्थि (संमति.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org