________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-२०-२१
१६१
[ अभेदैकान्तवादिन आशङ्का ] अत्राहाभेदैकान्तवादी
भण्णइ संबंधवसा जइ संबंधित्तणं अणुमयं ते ।
णणु संबंधविसेसे संबंधिविसेसणं सिद्धं ।।२०।। संबन्धसामान्यवशाद् यदि संबन्धित्वसामान्यम् अनुमतं तव ननु संबन्धविशेषद्वारेण तथैव संबन्धिविशेषोऽपि किं नाभ्युपगम्यते ? ।।२०।।
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प.८२ अत्राहैकान्ताऽभेदवादी
“भण्णइ सम्बन्धवसा, जइ सम्बन्धित्तणं अनुमयं ते ।
नणु सम्बन्धविसेसे, सम्बन्धिविसेसणं सिद्धं ।। ३/२० ।।" सम्बन्धसामान्यवशाधदि सम्बन्धित्वसामान्यमनुमतं तव, ननु सम्बन्धविशेषद्वारेण सम्बन्धिविशेषोऽपि किं नाभ्युपगम्यते ? ।।
[ सिद्धान्तवादिनाऽऽशङ्कानिरसनम् ] - सिद्धान्तवाद्याह
जुज्जइ संबंधवसा संबंधिविसेसणं ण उण एयं ।
णयणाइविसेसगओ रूवाइविसेसपरिणामो ।।२१।। संबन्धविशेषवशाद् युज्यते संबन्धिविशेषः यथा दण्डादिसंबन्धिविशेषजनितसंबन्धविशेषसमासादितसंबन्धिविशेषोऽवगतः । द्रव्याद्वैतवादिनस्तु न संबन्धिविशेषः नापि संबन्धविशेषः संगच्छत इति कुतो रसनादिविशेषसंबन्धजनितो रसादिविशेषपरिणामः ? ।।२१।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org