________________
.
१६०
संमतितर्कप्रकरणे, काण्ड-३, गाथा-१९
वस्तुनोऽतथात्वात् । न चक्षुर्ग्राह्यताविशिष्टद्रव्यस्य रूपादित्वे ग्राह्यतायाः शक्तिरूपायाः अतीन्द्रियत्वेन रूपाद्यतीन्द्रियतापत्तिः, विशेषणाप्रत्यक्षत्वेऽपि विशेष्यविधया तत्प्रत्यक्षत्वसम्भवाच्छक्तिभेदाच्च न चाक्षुषादिज्ञानसङ्कर इति दिग् ।।
[कथंचिद् भेदाभेदं मिथ्या वदतोऽभेदेकान्तपक्षस्य निराकरणम् ] अस्य निराकरणायाह
होज्जाहि दुगुणमहुरं अणंतगुणकालयं तु जं दव्वं ।
ण उ डहरओ महल्लो वा होइ संबंधओ पुरिसो ।।१९।। यदि नाम आम्रादिद्रव्यमेव रसनसंबन्धाद् ‘रसः' इति व्यपदेशमात्रमासादयेत् द्विगुणमधुरं रसतः कुतो भवेत् तथा नयनसंबन्धाद् यदि नाम 'कृष्णम्' इति भवेद् अनन्तगुणकृष्णं तत् कुतः स्याद् वैषम्यभेदावगतेर्नयनादिसंबन्धमात्रादसंभवात् । तथा, पुत्रादिसंबन्धद्वारेण पित्रादिरेव पुरुषो भवेद् न त्वल्पो महान् वेति युक्तः । विशेषप्रतिपत्तेरुपचरितत्वे मिथ्यात्वे वा सामान्यप्रतिपत्तावपि तथाप्रसक्तेरिति भावः ।।१९।।।
-: अनेकान्तव्यवस्थायां :
___ अनेकान्तवादस्वरूपवर्णने प.८२ नन्वेवं द्रव्याद्वैतैकान्तसिद्धेः कथञ्चिद्भेदाभेदवादो द्रव्यगुणयोरघटमानः स्यादिति चेत्, न, रूपादीनां गुणभेदेन व्यवहारोपपत्तावपि द्रव्याविशेषेऽपि तद्विशेषदर्शनेन भेदस्यापि सम्भवात्, आह च
“होजाहि दुगुणमहुरं, अणंतगुणकालयं तु जं दव्वं ।
ण उ डहरओ महल्लो, व्व होइ सम्बन्धओ पुरिसो ।। ३/१९ ।।" यदि नामाम्लादिद्रव्यमेव रसनसम्बन्धाद्रस इति व्यपदेशमात्रमासादयेत्, द्विगुणमधुरं रसनतो कुतो भवेत, तथा नयनसम्बन्धाद्यदि नाम कृष्णमिति भवेदनन्तगुणकृष्णं तत्कुतः स्यात्, वैषम्यभेदावगतेनयनादिसम्बन्धमात्रादसम्भवात्, तथा पुत्रादिसम्बन्धद्वारेण पित्रादिरेव पुरुषो भवेन्न त्वल्पो महान्वेति युक्तः, विशेषप्रतिपत्तेरुपचरितत्वे मिथ्यात्वे वा सामान्यप्रतिपत्तावपि तथा प्रसक्तेरिति भावः ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org