________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-१६-१७-१८
१५९
एकान्तव्यतिरिक्ताभ्युपगमवादो यः पुनर्रव्य-गुण-क्रियाभेदेषु स यद्यपि पूर्वमेव प्रतिक्षिप्तः भेदैकान्तग्राहकप्रमाणाभावात् अभेदग्राहकस्य च 'सर्वमेकं सदविशेषात विशेष वा वियत्कुसुमवदसत्त्वप्रसङ्गाद्' इति प्रदर्शितत्वात् ।
तथापि तत्स्वरूपे दाढ्योत्पादनार्थमुदाहरणमात्रमभिधीयतेपितृ-पुत्र-नप्तृ-भाग्नेय-भ्रातृभिर्य एकस्य पुरुषस्य संबन्धस्तेनासावेक एव पित्रादिव्यपदेशमासादयति । न चासावेकस्य पिता पुत्रसंवन्धतः-इति शेषाणामपि पिता भवति ।
यथा प्रदर्शितसंबन्धविशिष्टः पित्रादिव्यपदेशमाश्रित्यासौ पुरुषरूपतया निरतिशयोऽपि सन् तथा द्रव्यमपि घ्राण-रसन-चक्षुस्-त्वक-श्रोत्रसंबन्धमवाप्य रूप-रस-गन्ध-स्पर्शशब्दव्यपदेशमात्रं लभते द्रव्यस्वरूपेणाविशिष्टमपि नहि शक्रेन्द्रादिशब्दभेदाद गीर्वाणनाथस्येव रूपादिशब्दभेदाद् वस्तुभेदो युक्तस्तदा द्रव्याद्वैतैकान्तस्थितेः कथंचिद भेदाभेदवादो द्रव्य-गुणयोर्मिथ्यावाद इति ।।१६।।१७।।१८।।
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प.८२ आह च महामतिः
“पिउपुत्तणत्तुभाणिजभाऊणं एगपुरिससंबन्धो । ण य सो एगस्स पिय त्ति सेसयाणं पिया होइ ।। ३/१७ ।।" जह सम्बन्धविसिट्ठो, सो पुरिसो पुरिसभावणिरइसओ ।
तह दव्वमिंदियगयं, रूवाइविसेसणं लहइ ।। ३/१८ ।। “पितृपुत्रनप्तृभागिनेयभ्रातृभिर्य एकस्य पुरुषस्य सम्बन्धः तेनासावेक एव पित्रादिव्यपदेशमासादयति, न चासावेकस्य पिता पुत्रः संवृत्त इति शेषाणामपि पिता भवति, यथा प्रदर्शितसम्बन्धविशिष्टः पित्रादिव्यपदेशमाश्रित्यासौ पुरुषरूपतया निरतिशयोऽपि संस्तथा द्रव्यमपि घ्राणरसनचक्षुस्त्वक्श्रोत्रसम्बन्धमवाप्य गन्धरसरूपस्पर्शशब्दव्यपदेशमात्रं लभते द्रव्यस्वरूपेणाविशिष्टमपि, न हि शकेन्द्रादिशब्दभेदाद्गीर्वाणनाथस्येव रूपादिशब्दभेदाद्वस्तुभेदो युक्तः, न चैवं पित्रादिवद् घटादेरपि सावधिकत्वप्रसङ्गः, पित्रादिव्यवहारस्येव रूपादिव्यवहारस्य सावधिकत्वेऽपि
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org