________________
१५८
संमतितर्कप्रकरणे, काण्ड-३, गाथा-१६-१७-१८
पर्यायशब्दयोर्भेदो वस्तु पुनस्तयोस्तुल्यमिति भावः । न च गुणानां पर्यायत्वे वाचकमुख्यसूत्रम् "गुण-पर्यायवद् द्रव्यम्” (तत्त्वार्थ० अ० ५, सू० ३७) इति विरुध्यते, युगपदयुगपद्भाविपर्यायविशेषप्रतिपादनार्थत्वात् तस्य । न चैवमपि मतुष्प्रयोगाद् द्रव्यविभिन्नपर्यायसिद्धिः, नित्ययोगेऽत्र मतुब्विधानात् द्रव्य-पर्याययोस्तादात्म्यात् सदाऽविनिर्भागवर्तित्वात् अन्यथा प्रमाणवाधोपपत्तेः । संज्ञा-संख्या-स्वलक्षणाऽर्थक्रियाभेदाद् वा कथंचित् तयोरभेदेऽपि भेदसिद्धेर्न मतुवनुपपत्तिः ।।१५।।
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प.७६ दृष्टान्तद्वारेणामुमर्थं दृढीकर्तुमाह
“जह दससु दसगुणमि य, एगमि दसत्तणं समं चेव ।
अहियंमि वि गुणसद्दे, तहेव एवं पि दट्ठव्वं ।। ३/१५ ।।" यथा दशसु द्रव्येषु, एकस्मिन् वा द्रव्ये दशगुणिते गुणशब्दातिरेकेऽपि, दशत्वं सममेव तथैवैतदपि न भिद्यते परमाणुरेकगुणकृष्णादिरित्येकादिशब्दाधिकगुणशब्देनापि तदधिकार्थाप्रतिपादनादिति द्रष्टव्यम् । [ भेदस्य निरासेनाभेदस्य फलितत्वेऽप्येकान्तिना तस्य दाढाय सोपनयमुदाहरणम् ] एवं द्रव्य-पर्याययोर्भेदैकान्तप्रतिषेधे अभेदैकान्तवाद्याह
एयंतपक्खवाओ जो उण दव्व-गुण-जाइभेयम्मि । अह पुब्बपडिक्कुट्ठो उआहरणमित्तमेयं तु ।।१६।। पिउ-पुत्त-णत्तु-भव्वय-भाऊणं एगपुरिससंबंधो । ण य सो एगस्स पिय त्ति सेसयाणं पिता होइ ।।१७।। जह संबन्धविसिट्ठो सो पुरिसो पुरिसभावणिरइसओ । तह दवमिंदियगयं रूवाइविसेसणं लहइ ।।१८।।
1. भाणिज्ज (अने. व्य.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org