________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-१४-१५
१५७
[ उक्तस्य पूर्वपक्षस्य सिद्धान्तवादिना निराकरणम् ] अत्राह सिद्धान्तवादी
गुणसद्दमंतरेणावि तं तु पज्जवविसेससंखाणं ।
सिज्झइ णवरं संखाणसत्थधम्मो 'तइगुणो'त्ति ।।१४।। रूपाद्यभिधायिगुणशब्दव्यतिरेकेणापि ‘एकगुणकालः' इत्यादिकं पर्यायविशेषसंख्यावाचकं वचः सिध्यति न पुनर्गुणास्तिकनयप्रतिपादकत्वेन, यतः संख्यानं गणितशास्त्रधर्मः'अयं तावद्रुण इति एतावताऽधिको न्यूनो वा भावः' इति गणितशास्त्रधर्मत्वादस्येत्यर्थः
।।१४।। -: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प.७६ अत्राह सिद्धान्तवादी
“गुणसद्दमन्तरेणावि तं तु पजवविसेससंखाणं ।
सिज्झइ णवरं संखाणसत्थधम्मो न उ गुणो त्ति ।। ३/१४ ।।" तत्तु प्रागुक्तं वचनम्, गुणशब्दमन्तरेणापि रूपाद्यभिधायकगुणशब्दं विनापि, पर्यायविशेषसंख्यानं पर्यायविशेषसंख्यावाचकम्, सिध्यति, न त्चतिरिक्तगुणगुणार्थिकनयप्रतिपादनपरम्, तत्र गुणशब्दस्यतावताऽधिको न्यूनो वा भाव इति गणितशास्त्रधर्मवचनत्वादिति भावः ।।
[ सिद्धान्तिना स्वोक्तस्यार्थस्य दृढीकरणम् ] दृष्टान्तद्वारेणामुमेवार्थं दृढीकर्तुमाह
जह दससु दसगुणम्मि य एगम्मि दसत्तणं समं चेव ।
अहियम्मि वि गुणसद्दे तहेव एवं पि दट्ठव्वं ।।१५।। यथा दशसु द्रव्येषु, एकस्मिन् वा द्रव्ये दशगुणिते दशशब्दातिरेकेऽपि दशत्वं सममेव तथैव एतदपि न भिद्यते-‘परमाणुरेकगुणकृष्णादिः' इति । एकादिशब्दाधिक्ये गुण
१.न उ गुणो त्ति (अने. व्य.) । २. तइगुणो त्ति (संमति.) |
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org