________________
१५६
संमतितर्कप्रकरणे, काण्ड-३, गाथा-१३
भेदादेव गुणो ‘गुण्यते पृथक्क्रियतेऽनेन' इति धात्वर्थानुसाराद्, इति व्युत्पत्तिनिमित्तमपेक्ष्य, तुल्यार्थी गुणपर्यायशब्दौ, तथापि गुणा इति पर्याया न भण्यन्ते, पर्यायविशेषवाचकस्य गुणशब्दस्य पर्यायसामान्योक्तावप्रवृत्तेः, न च गुणशब्दस्य पर्यायसामान्य एव शक्तिः कल्पनीया, यस्मात् पर्यायनयद्वारेणैव भगवता देशना कृता, न तु गुणार्थिकनयद्वारा, अतो व्युत्पत्तिनिमित्ततौल्येऽपि गुणपर्यायशब्दयोः सामान्यविशेषभावापन्नप्रवृत्तिनिमित्तभेदान्न पर्यायत्वमिति ।
[ भगवतो गुणद्वारेणापि देशनादर्शनान्न गुणाभाव इति पूर्वपक्षः ] गुणद्वारेणापि देशनायां भगवतः प्रवृत्तिरुपलभ्यते इति न गुणाभाव इत्याह
जंपन्ति अस्थि समये एगगुणो दसगुणो अणंतगुणो ।
'रूवाई परिणामो भण्णइ तम्हा गुणविसेसो ।।१३।। जल्पन्ति द्रव्य-गुणान्यत्ववादिनः-विद्यते एव सिद्धान्ते “एगगुणकालए दुगुणकालए" [भगवतीसू० शत० ५, उ० ७ सू० २१७] इत्यादि रूपादौ व्यपदेशस्तस्माद् रूपादिर्गुणविशेष एवेत्यस्ति गुणार्थिको नयः उपदिष्टप्टा भगवतेति ।।१३।।
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प. ७६ ननु पर्यायशब्द: क्रमभाविधर्मवाचक एव, गुणशब्दष्टा सहभाविधर्मवाचक एव, तथा च गुणः पर्यायेभ्योऽतिरिच्यन्ते पर्यायातिरिक्तगुणाभिधानान्यथानुपपत्त्या च गुणार्थिकनयोऽपि भगवताऽर्थादुपदिष्ट एवेत्याशङ्कते
“जंपंति अत्थि समए, एगगुणो दसगुणो अणंतगुणो ।
रुवाइयपरिणामो, भण्णइ तम्हा गुणविसेसो ।। ३-१३ ।।" जल्पन्ति द्रव्यगुणान्यत्ववादिनो, अस्ति विद्यत एव, सिद्धान्ते ‘एगगुणकालए दुगुणकालए' इत्यादिः रूपादौ व्यपदेशः, तस्माद्रूपादिपरिणामो गुणविशेष एवेत्यस्ति गुणार्थिकोऽपि नय उपदिष्टप्टा भगवतेति ।
1. रूवाइयपरि० (अने. व्य.) । 2. रूवाई परि० (संमति.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org