SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-१२ १५५ -: अनेकान्तव्यवस्थायां : अनेकान्तवादस्वरूपवर्णने प. ७५ न च भगवताऽसावुक्त इत्याह जं च पुण अरहया, तेसु तेसु सुत्तेसु गोयमाईणं । पज्जवसण्णा णियया, वागरिया तेण पज्जाया ।। ३/११ ।। यत् पुनर्भगवता तस्मिँस्तस्मिन्सूत्रे ‘वण्णपज्जवेहिं' इत्यादिना, पर्यायसंज्ञा नियमिता वर्णादिषु, गौतमादिभ्यो व्याकृता, ततः पर्याया एव वर्णादयो न गुणा इत्यभिप्रायः ।। [ तुल्यार्थत्वाद् आगमाञ्च पर्यायशब्देन गुणस्यैवाभिधानमिति कथनम् ] अथ तत्र गुण एव पर्यायशब्देनोक्तः तुल्यार्थत्वात् आगमाञ्च“य एव पर्यायः स एव गुणः” [ ] इत्यादिकात् । एतदेवाह परिगमणं पज्जाओ अणेगकरणं गुण त्ति तुल्लत्था । तह वि ण 'गुण'त्ति भण्णइ पज्जवणयदेसणा जम्हा ।।१२।। परि समन्तात् सहभाविभिः क्रमभाविभिष्टा भेदैर्वस्तुनः परिणतस्य गमनं परिच्छेदो यः स पर्यायो विषय-विषयिणोरभेदात्; अनेकरूपतया वस्तुनः करणं-करोतेर्ज्ञानार्थत्वात्-ज्ञानम्विषय-विषयिणोरभेदादेव-गुणः इति तुल्यार्थी गुण-पर्यायशब्दौ, तथापि न ‘गुणार्थिकः' इत्यभिहितस्तीर्थकृता पर्यायनयद्वारेणैव देशना यस्मात् कृता भगवतेति ।।१२।। -: अनेकान्तव्यवस्थायां : अनेकान्तवादस्वरूपवर्णने प. ७५ अथ तत्र गुण एव पर्यायशब्देनोक्तः किं न स्यादित्यादिशङ्कायामाह___ “परिगमणं पज्जाओ, अणेगकरणं गुण त्ति तुल्लत्था । तह वि ण गुणत्ति भण्णइ, पजवणयदेसणा जम्हा ।। ३/१२ ।। परि समन्तात्सहभाविभिः क्रमभाविभिष्टा भेदैर्वस्तुनः परिणतस्य गमनं परिच्छेदो यः स पर्यायो विपयविपयिणोरभेदादनेकरूपतया वस्तुनः करणं 'करोतेर्ज्ञानार्थत्वात्' ज्ञानम्, विषयविषयिणोर Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy