SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १५४ संमतितर्कप्रकरणे, काण्ड-३, गाथा-१०-११ [ गुणस्य पर्यायाद् भेदे तृतीयस्य गुणार्थिकनयस्यापि वचनीयत्वप्रसञ्जनम् ] यदि पर्यायादन्यो गुणः स्यात् पर्यायार्थिकवद् गुणार्थिकोऽपि नयो वचनीयः स्यादित्याह दो उण णया भगवया दव्वट्ठिय-पज्जवट्ठिया नियया । एत्तो य गुणविसेसे गुणट्ठियणओ वि जुज्जंतो ।।१०।। द्वावेव मूलनयौ भगवता द्रव्यार्थिक-पर्यायार्थिको नियमितो, तत्रातः पर्यायादधिके गुणविशेष ग्राह्ये सति तद्ग्राहकगुणास्तिकनयोऽपि नियमितुं युज्यमानकः स्याद् अन्यथा अव्यापकत्वं नयानां भवेद् अर्हतो वा तदपरिज्ञानं प्रसज्येत ।।१०।। -: अनेकान्तव्यवस्थायां : अनेकान्तवादस्वरूपवर्णने प. ७५ यदि च पर्यायादन्यो गुणः स्यात्तदा पर्यायार्थिकवद् गुणार्थोऽपि नयः स्यादित्यनिष्टापत्तिमाह “दो उ णया भगवया, दव्वट्ठियपज्जवट्ठिया नियया । एत्तो य गुणविसेसे, गुणट्ठियणओ वि जुजंतो ।। ३/१० ।।" द्वावेव मूलनयौ, भगवता द्रव्यार्थिकपर्यायार्थिको नियमितावितः पर्यायादधिके, गुणविशेषे ग्राह्ये सति, तद्ग्राहको गुणास्तिकनयोऽपि नियमितुं युज्यमानकः स्याद्, अन्यथाऽव्यापकत्वं नयानां भवेत् ।। [ तृतीयस्य गुणार्थिकनयस्य भगवदनुक्तत्वोपपादनम् ] न च भगवताऽसावुक्त इत्याह जं च पुण अरिहया तेसु तेसु सुत्तेसु गोयमाईणं । पज्जवसण्णा 'णियया वागरिया तेण पज्जाया ।।११।। यतः पुनर्भगवता तस्मिंस्तस्मिन् सूत्रे “वण्णपज्जवेहिं, गंधपज्जवेहिं" [भगवती सू० शत० १४, उ० ४ सू० ५१३] इत्यादिना पर्यायसंज्ञा नियमिता वर्णादिषु गौतमादिभ्यः व्याकृता-स्ततः पर्याया एव वर्णादयो न गुणा इत्यभिप्रायः ।।११।। 1.णिअमा (स्या. कल्प.) । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy