________________
संमतितर्कप्रकरणे, काण्ड - ३, गाथा - ९
[ द्रव्य - गुणयोरेकान्तभेदाशङ्कां निराकर्तुं गुणशब्दस्यार्थपरीक्षा ]
एतत्परिहारायाह
दूरे ता अण्णत्तं गुणसद्दे चेव ताव पारिच्छं ।
किं पज्जवाहिओ होज्ज पज्जवे चैव गुणसण्णा ।।९।।
दूरे तावद् गुण-गुणिनोरेकान्तेनान्यत्वम् - असंभावनीयमिति यावत्-गुणात्मकद्रव्यप्रत्ययबाधितत्वाद् एकान्तगुणगुणिभेदस्य । न च समवायनिमित्तोऽयमभेदप्रत्ययः, तस्य निषिद्धत्वात् । न चैकत्वप्रत्ययस्य प्रागुपन्यस्तानुमानबाधा, एकत्वप्रत्ययाध्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेनैकशाखाप्रभवत्वानुमानस्येव तस्य कालात्ययापदिष्टत्वात् । ततो गुणगुणिनोरेकान्तान्यत्वस्यासंभवात् गुणशब्दे एव तावत् पारीक्ष्यमस्ति किं पर्यायादधिके गुणशब्दः ? उत पर्याय एव प्रयुक्त इति ? अभिप्रायष्टा न पर्यायादन्यो गुणः, पर्यायष्टा कथंचिद्द्रव्यात्मक इति विकल्पः कृतः ।। ९ ।।
-: अनेकान्तव्यवस्थायां :अनेकान्तवादस्वरूपवर्णने प. ७५
एतन्मतं परिजिहीर्षुराह
“ दूरे ता अण्णत्तं, गुणसद्दे चेव ताव पारिच्छं ।
किं पज्जवाहिए होज्ज, पज्जवे वा वि गुणसण्णा ।। ३-९ ।।”
दूरे तावद् गुणगुणिनोरेकान्तेनान्यत्वम्, असम्भावनीयमिति यावत्, गुणात्मकद्रव्यप्रत्ययबाधितत्वादेकान्तेन गुणगुणिभेदस्य । न च समवायनिमित्तोऽयमभेदप्रत्ययः, तत्र प्रमाणाभावात्, न चैकत्वप्रत्ययस्य प्रागुक्तानुमानबाधा, एकत्वप्रत्ययाध्यक्षबाधितकर्मनिर्देशानन्तरं प्रयुक्त्वेनैकशाखाप्रभवत्वानुमानस्येव तस्य कालात्ययापदिष्टत्वात्, ततो गुणगुणिनोरेकान्तान्यत्वस्यासम्भवाद्, गुणशब्द एव तावत्पारीक्ष्यमस्ति, किं पर्यायादधिके गुणसंज्ञा गुणशब्दः प्रवर्तते किं वा पर्याय एव भवेत्, पर्यायानन्यत्वे कथञ्चिद् द्रव्यात्मकत्वमेवेत्यभिप्रायः ।
1. वा वि (अने. व्य.) 2. चेव ( संमति ) ।
१५३
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org