________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-१६
वसितचतुर्ज्ञानो ज्ञातदृष्टभाषी ज्ञाता दृष्टा च नियमेन युज्यते; तथैतदपि एकत्ववादिना यदपर्यवसितत्वादि क्रमोपयोगे केवलिनि प्रेर्यते तदपि सार्वदिककेवलज्ञानदर्शनशक्तिसमन्वयात् उपपद्यत इत्यर्थः । भण्यते अत्रोत्तरं दीयते यथैवाहन्न पञ्चज्ञानी तथैवेतदपि कमवादिना यदुच्यते भेदतो ज्ञानवान् दर्शनवांप्टा तदपि, न भवतीत्यर्थः । मत्याद्यावरणक्षयेऽपि एकदेशग्राहिणो मतिज्ञानादेरिव दर्शनावरणक्षयेऽपि तादृशदर्शनस्य केवलिनि भेदेनानुपपत्तेरिति भावः । इयांस्तु विशेषः यदभेदेनापि केवलज्ञाने दर्शनसंज्ञा सिद्धान्तसम्मता, न तु मतिज्ञानादिसंज्ञेति, तत्र हेतू अन्वर्थोपपत्त्यनुपपत्ती एव द्रष्टव्ये । अयं च प्रौढिवादः । वस्तुतः क्रमवादे यदा जानाति तदा पश्यति इत्यादेरनुपपत्तिरेव, आश्रयत्वस्यैवाख्यातार्थत्वात् । लब्धेरतदर्थत्वे तु घटाऽदर्शनवेलायामपि ‘घटं पश्यति' इति प्रयोगप्रसङ्गात्, घटदर्शनलब्धेः तदानीमपि विद्यमानत्वात् । 'चक्षुष्मान् सर्वं पश्यति न त्वन्धः' इत्यादौ त्वगत्या लब्धेर्योग्यताया वाख्यातार्थत्वमभ्युपगम्यत एव, न तु सर्वत्राप्ययं न्यायः अतिप्रसङ्गात् । न च सिद्धान्ते विना निक्षेपविशेषमप्रसिद्धार्थे पदवृत्तिरवधार्यते । षट्षष्टिसागरोपमस्थितिकत्वादिकमपि मतिज्ञानादेर्लब्ध्यपेक्षयैवेति दुर्वचम्, एकस्या एव क्षयोपशमरूपलब्धेस्तावत्कालमनवस्थानात्, द्रव्याद्यपेक्षया विचित्रापरापरक्षयोपशमसन्तानस्यैव प्रवृत्त्युपगमात् । किन्तु एकजीवावच्छेदेन अज्ञानातिरिक्तविरोधिसामग्र्यसमवहितषट्षष्टिसागरोपमक्षणत्वव्याप्यस्वजातीयोत्पत्तिकत्वे सति तदधिकक्षणानुत्पत्तिकस्वसजातीयत्वरूपं तत् पारिभाषिकमेव वक्तव्यम्, एवमन्यदप्यूह्यम् । [ मत्यादिज्ञानचतुष्करूपे दृष्टान्ते यत्र यत्रोपयोगे विषयभेदस्तत्र तत्रासर्वार्थत्वमिति
व्याप्तेर्भावनम् ] क्रमेण युगपद्वा परस्परनिरपेक्षस्वविषयपर्यवसितज्ञानदर्शनोपयोगौ केवलिन्यसर्वार्थत्वान्मत्यादिज्ञानचतुष्टयवन्न स्त इति दृष्टान्तभावनायाह
पण्णवणिज्जा भावा समत्तसुयणाणदसणाविसओ ।
ओहिमणपज्जवाण उ अण्णोण्णविलक्खणा विसओ ।।१६।। मतिश्रुतयोरसर्वपर्यायसर्वद्रव्यविषयतयाऽभिन्नार्थत्वे श्रुतस्यासर्वार्थग्रहणात्मकभावनया मतिरपि तथा भावितैवेति श्रुतज्ञानस्यैव गाथायामसर्वार्थत्वभावना प्रदर्शिता । प्रज्ञापनीयाः शब्दाभिलाप्या भावा द्रव्यादयः समस्तश्रुतज्ञानस्य द्वादशाङ्गवाक्यात्मकस्य दर्शनाया 1-य (ज्ञानबिन्दु)।.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org