________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-१५
११५
विषयाभावादनन्तता ? न च 'उभयोस्तुल्यविषयत्वाऽविशेषेऽपि मुख्योपसर्जनभावकृतो विशेषः' इति वाच्यम्, विशेषणविशेष्यभावेन तत्तन्नयजनितवैज्ञानिकसम्बन्धावच्छिन्नविषयतया वा तत्र कामचारात् । आपेक्षिकस्य च तस्यास्मदादिबुद्धावेवाधिरोहात् । एतञ्च निरूपिततत्त्वम् ‘जं जं जे भावे' (आव० २८२) इत्यादिनियुक्तिगाथाया नयभेदेन व्याख्याद्वये अनेकान्तव्यवस्थायाम् अस्माभिः । अक्रमोपयोगद्वयवादी तु प्रकृतगाथायां साकारे यद् ग्रहणं दर्शनं तस्य नियमो अवश्यंभावो यावन्तो विशेषास्तावन्त्यखण्डसखण्डोपाधिरूपाणि जातिरूपाणि वा सामान्यानीति हेतोस्तेनाऽपरीतं अनन्तमित्यकारप्र लेषेण व्याचष्टे । [ अभेदवाद्युक्तस्य केवले अपर्यवसित्वादिदोषस्य क्रमवादिना समुद्धरणम् तस्य च
पुनरभेदवादिना प्रतिसमाधानम् ] क्रमवादिदर्शने ज्ञानदर्शनयोरपर्यवसितत्वादिकं नोपपद्यत इति यत् प्रेरितमेकत्ववादिना तत्परिहारार्थमाह
भण्णइ जह चउणाणी जुज्जइ णियमा तहेव एवं पि ।
भण्णइ ण पंचणाणी जहेव अरहा तहेयं पि ।।१५।। यथा क्रमोपयोगप्रवृत्तोऽपि मत्यादिचतर्ज्ञानी अपर्यवसितचतुर्ज्ञान उत्पद्यमानतज्ज्ञानसर्वदोपलब्धिको व्यक्तबोधो ज्ञातदृष्टभाषी ज्ञाता द्रष्टा संज्ञेयवर्ती चावश्यमेव युज्यते तच्छक्तिसमन्वयात् तथैतदपि एकत्ववादिना यदपर्यवसितादि केवलिनि प्रेर्यते तद् युज्यत एव ।
अत्रैकत्ववादिना प्रतिसमाधानं भण्यते यथैवार्हन्न पञ्चज्ञानी भवति तथैतदपि क्रमवादिना यदुच्यते भेदतो ज्ञानवान् दर्शनवानिति च तदपि न भवतीति सूत्रकृतोऽभिप्रायः ।।१५।।
[S.T.P. 610] -- ज्ञानबिन्दु: :क्रमवादे ज्ञानदर्शनयोरपर्यवसितत्वादिकं नोपपद्यत इति यदुक्तं तत्राक्षेपमुट्टङ्कय समाधत्ते
"भण्णइ जह चउनाणी जुजइ णियमा तहेव एयं पि ।
भण्णइ ण पंचनाणी जहेव अरहा तहेयं पि ।" [२/१५] भण्यते आक्षिप्यते यथा क्रमोपयोगप्रवृत्तोऽपि मत्यादिचतुर्ज्ञानी तच्छक्तिसमन्वयादपर्य
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org