________________
११४
संमतितर्कप्रकरणे, काण्ड-२, गाथा-१४
[ आगमसिद्धसमसंख्यकविषयावगाहित्वयुक्त्या केवलज्ञानदर्शनयोरभेदसमर्थनम् ] ज्ञानदर्शनयोरेकसंख्यत्वादप्येकत्वमित्याह
केवलणाणमणंतं जहेव तह दंसणं पि पण्णत्तं ।
सागारग्गहणा हि य णियमपरित्तं अणागारं ।।१४।। अत्र तात्पर्यार्थः-यद्येकत्वं ज्ञान-दर्शनयोर्न स्यात् ततोऽल्पविषयत्वाद् दर्शनमनन्तं न स्यादिति “अणन्ते केवलणाणे अणंते केवलदंसणे” [ ] इत्यागमविरोधः प्रसज्येत । दर्शनस्य हि ज्ञानाद् भेदे साकारग्रहणादनन्तविशेषवर्तिज्ञानादनाकारं सामान्यमात्रावलम्बि केवलदर्शनं यतो नियमेनैकान्तेनैव परीतमल्पं भवतीति कुतो विषयभेदादनन्तता? __ युगपदुपयोगद्वयवादी अनन्तं दर्शनं प्रज्ञप्तमित्यस्यां प्रतिज्ञायां ‘साकारग्गहणाहि य णियमऽपरित्तं' इत्यकारप्रश्लेषात् साकारे विशेषे गतं यत् सामान्यं तस्य यद् ग्रहणं दर्शनं तस्य नियमोऽवश्यंभावस्तेनापरीतमपरिमाणमिति साकारगतग्रहणनियमेनापरीतत्वादिति हेतुमभिधत्ते । यञ्चापरीतं तदनन्तं यथा केवलज्ञानम् अपरीतता च दर्शनस्य द्रव्य-गुण-कर्मादेः साकारस्य च सकलस्य द्रव्यत्व-गुणत्व-कर्मत्वादिना स्वसामान्येन तावत्परिमाणेनाशून्यत्वात सामान्यविकलस्य पर्यायस्यासंभवात् । विशेषतादात्म्यव्यवस्थितसामान्यस्य दर्शनविषयस्यानन्त्येन दर्शनस्यापरीतत्वं नासिद्धमिति भवति तस्यानन्त्यसिद्धिरिति व्यवस्थितः ।।१४ । ।
-: ज्ञानबिन्दुः :समसंख्यकविषयकत्वेनापि केवलयोरैक्यम्ज्ञानदर्शनयोर्विषयविधयैकसंख्याशालित्वादपि एकत्वमित्याह
"केवलनाणमणंतं जहेव तह दंसणं पि पण्णत्तं ।
सागारग्गहणाहि य णियमपरित्तं अनागारं ।।" [२/१४] यद्येकत्वं ज्ञानदर्शनयोर्न स्यात् तदाऽल्पविषयत्वाद्दर्शनमनन्तं स्यादिति “अणंते केवलनाणे अणंते केवलदंसणे” इत्यागमविरोधः प्रसज्येत । दर्शनस्य हि ज्ञानाद् भेदे साकारग्रहणादनन्तविशेषवर्ति• ज्ञानादनाकारं सामान्यमात्रावलम्बि केवलदर्शनं यतो नियमेन एकान्तेनैव परीतमल्पं भवतीति कुतो
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org