________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-१३
११३
।
क्रमोपयोगपक्षे तु तत्त्वाद् भिन्नसमयत्वाञ्च तत एकस्मिन् समये ज्ञातं दृष्टं च भाषत इत्येष वचनविशेषो भवदर्शने न संभवतीति गृह्यताम् ।।१२।।
___-: ज्ञानबिन्दु: :क्रमाऽक्रमोपयोगद्वयपक्षे भगवतो यदापद्यते तदाह
“अघिटुं अण्णायं च केवली एव भासइ सया वि । .
एगसमयम्मि हंदी वयणविगप्पो ण संभवइ ।।" [२/१२] इति । आद्यपक्षे ज्ञानकालेऽदृष्टम्, दर्शनकाले चाज्ञातम्, द्वितीयपक्षे च सामान्यांशेऽज्ञातं विशेषांशे चाऽदृष्टम्, एवमुक्तप्रकारेण केवली सदा भाषते ततः ‘एकस्मिन् समये' ज्ञातं दृष्टं च भगवान् भाषते' इत्येष वचनस्य विकल्पो विशेषो भवद्दर्शने न सम्भवतीति गृह्यताम् । न चान्यतरकालेऽन्यतरोपलक्षणात् उपसर्जनतया विषयान्तरग्रहणाद् उक्तवचनविकल्पोपपत्तिः, एवं सति भ्रान्तच्छद्मस्थेऽपि तथाप्रयोगप्रसङ्गात् । यदा कदाचित् शृङ्गग्राहिकया ज्ञानदर्शनविषयस्यैव पदार्थस्य तबुद्धावनुप्रवेशादिति स्मर्तव्यम् । [क्रमाक्रमपक्षद्वये भगवतः अज्ञातदर्शितया अदृष्टज्ञायितया च सर्वज्ञत्वासंभवप्रदर्शनम्] तथा च सर्वज्ञत्वं न संभवतीत्याह
अण्णायं पासंतो अद्दिटुं च अरहा वियाणंतो ।
किं जाणइ किं पासइ कह सव्वण्णु त्ति वा होइ ।।१३।। अज्ञातं पश्यन्नदृष्टं च जानानः किं जानाति किं वा पश्यति न किञ्चिदपीति भावः । कथं वा तस्य सर्वज्ञता भवेत् ? ।।१३।।
-: ज्ञानबिन्दुः :तथा च सर्वज्ञत्वं न सम्भवतीत्याह
“अण्णायं पासंतो अद्दिटुं च अरहा वियाणंतो ।
किं जाणइ किं पासइ कह सव्वण्णु त्ति वा होइ ।।" [२/१३] अज्ञातं पश्यन अदृष्टं च जानानः किं जानाति किं वा पश्यति ? । न किञ्चिदित्यर्थः । कथं वा तस्य सर्वज्ञता भवेत् ? । न कथमपीत्यर्थः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org