________________
११२
संमतितर्कप्रकरणे, काण्ड-२, गाथा-१२
ज्ञानभेद इत्यभ्युपगमे तु दर्शनपार्थक्ये का प्रत्याशा ? आवरणद्वयक्षयादुभयैकस्वभावस्यैव कार्यस्य सम्भवात् । न च एकस्वभावप्रत्ययस्य शीतोष्णस्पर्शवत् परस्परविभिन्नस्वभावद्वयविरोधः, दर्शनस्पर्शनशक्तिद्वयात्मकैकदेवदत्तवत्स्वभावद्वयात्मकैकप्रत्ययस्य केवलिन्यविरोधात् । ज्ञानत्वदर्शनधर्माभ्यां ज्ञानदर्शनयोर्भेदः, न तु धर्मिभेदेनेति परमार्थः । अत एव तदावरणभेदेऽपि स्याद्वाद एव । तदुक्तं स्तुतौ ग्रन्थकृतैव
“चक्षुर्दर्शनविज्ञानं परमाण्वौष्ण्यरौक्ष्यवत् ।
तदावरणमप्येकं न वा कार्यविशेषतः ।।" [निष्टाय० द्वा० ८] इति ।। परमाणावुष्णरुक्षस्पर्शद्वयसमावेशवञ्चाक्षुषे ज्ञानत्वदर्शनत्वयोः समावेश इत्यर्थः । इत्थं च चाक्षुषज्ञानदर्शनावरकर्मापि परमार्थत एकम्, कार्यविशेषत उपाधिभेदतो वा नैकमिति सिद्धम् । एवमवधिकेवलस्थलेऽपि द्रष्टव्यम् । तदाह
“चक्षुर्वद्विषयाऽख्यातिरवधिज्ञानकेवले ।
शेषवृत्तिविशेषात्तु ते मते ज्ञानदर्शने ।।" [द्वा. १०/३०] इति । “चक्षुर्वञ्चाक्षुषवद्विषयाऽख्यातिः स्पृष्टज्ञानाभावः अस्पृष्टज्ञाने इति यावत्, भावाभावरूपे वस्तुनि अभावत्वाभिधानमपि दोषानावहम्। शेषा वृत्तयः स्पृष्टज्ञानानि ताभ्यो विशेषोऽस्पृष्टताविशेषण वक्ष्यमाणरीत्याऽस्पृष्टाऽविषयवृत्तित्वव्यङ्ग्येन, तस्मात्ते अवधिकेवले ज्ञानपदेन दर्शनपदेन च वाच्ये इत्येतदर्थः । [ क्रमाक्रमोपयोद्वयपक्षे शास्त्रसिद्धं ज्ञात-दृष्टभाषित्वं भगवतो न घटते इत्यभिधानम् ] क्रमाक्रमोपयोगद्वयाभ्युपगमे तु भगवत इदमापन्नमिति दर्शयति
अद्दिष्टुं अण्णायं च केवली एव भासइ सया वि ।
एगसमयम्मि हंदी वयणवियप्पो न संभवइ ।।१२।। अदृष्टमेव ज्ञातं जात्यन्धहस्तिपरिज्ञानवत् अज्ञातमेव च दृष्टमलातचक्रदर्शनवत् । सर्वकालमेव केवली भाषत इत्येतदापन्नमक्रमोपयोगपक्षे । क्रमवलुपयोगपक्षे तु एकस्मिन् समये जानाति यत् तदेव भाषते ज्ञातं न च दृष्टम् समयान्तरे तु यदा पश्यति तदापि दृष्टं भाषते न ज्ञातम्, बोधानुरूप्येण वाचः प्रवर्तनात् । बोधस्य चैकांशावलम्बित्वादक्रमोपयोगपक्षे,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org