________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-११
यदि सर्वं सामान्यविशेषात्मकं जगत् साकारं तत्तजातिव्यक्तिवृत्तिधर्मविशिष्टम्, साकारमिति क्रियाविशेषणं वा निरवच्छिन्नतत्तज्जातिप्रकारतानिरूपिततत्तद्व्यक्तिविशेष्यतासहितं परस्परं यावद्रव्यपर्यायनिरूपितविषयतासहितं वा यथा स्यात् तथेत्यर्थः । जानात्येकसमयेन सर्वज्ञः ‘पश्यति च' इति शेषः, तदा सदापि सर्वकालं युज्यते, एवं सर्वज्ञत्वं सर्वदर्शित्वं चेत्यर्थः अथवा इत्येतद्वैपरीत्ये सर्वं न जानाति सर्वं न जानीयादेकदेशोपयोगवर्तित्वाद् मतिज्ञानिवदित्यर्थः तथा च केवलज्ञानमेव केवलदर्शनमिति स्थितम् । [ साकारानाकारोपयोगयोरेकान्तिकभेदासंभवप्रदर्शनेन अनेकान्तस्य समर्थनम् ] साकारानाकारोपयोगयो:कान्ततो भेद इति दर्शयन्नाह सूरिः
परिसुद्धं सायारं अवियत्तं दंसणं अणायारं ।
ण य खीणावरणिज्जे जुज्जइ सुवियत्तमवियत्तं ।।११।। ज्ञानस्य हि व्यक्तता रूपं दर्शनस्य पुनरव्यक्तता न च क्षीणावरणे अर्हति व्यक्तताव्यक्तते युज्यते । ततः सामान्यविशेषज्ञेयसंस्पर्शी उभयैकस्वभाव एवायं केवलिप्रत्ययः । न च ग्राह्यद्वित्वाद् ग्राहकद्वित्वमिति तत्र संभावना युक्ता केवलज्ञानस्य ग्राह्यानन्त्येनान्ततापत्तेः । अन्योन्यानुविद्धग्राह्यांशद्वयभेदाद् ग्राहकस्य तथात्वकल्पने एकत्वानतिक्रमान्न दोष इति ।
सूरेरयमभिप्रायः-न चैकस्वभावस्य प्रत्ययस्य शीतोष्णस्पर्शवत् परस्परविभिन्नस्वभावद्वयविरोधो दर्शनस्पर्शनशक्तिद्वयात्मकैकदेवदत्तवत् स्वभावद्वयात्मकैकप्रत्ययस्य केवलिन्यविरोधात् अनेकान्तवादस्य प्रमाणोपपन्नत्वात् ।।११।।
___-: ज्ञानबिन्दुः :अव्यक्तत्वादपि पृथग्दर्शनं केवलिनि न सम्भवतीत्याह- “परिसुद्धं सायारं अविअत्तं दंसणं अणायारं ।
ण य खीणावरणिज्जे जुजइ सुवियत्तमवियतं ।।" [२/११] ज्ञानस्य हि व्यक्तता रूपम् दर्शनस्य पुनरव्यक्तता । न च क्षीणावरणेऽर्हति व्यक्तताऽव्यक्तते युज्येते, ततः सामान्यविशेषज्ञेयसंस्पर्म्युभयैकस्वभाव एवायं केवलिप्रत्ययः । न च ग्राह्यद्वित्वाद् ग्राहकद्वित्वमिति सम्भावनापि युक्ता, केवलज्ञानस्य ग्राह्यानन्त्येनान्ततापत्तेः । विषयभेदकृतो न
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org