________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-१०
[ केवलज्ञान-दर्शनयोरभेदपक्ष एव सर्वज्ञत्व-सर्वदर्शित्वोपपत्तिरिति प्रकटनम् ] यदेव ज्ञानं तदेव दर्शनमित्यस्मिन्नेव वादे सर्वज्ञतासंभव इत्याह
जइ सव्वं सायारं जाणइ एक्कसमएण सव्वण्णू ।
जुज्जइ सयावि एवं अहवा सव्वं ण याणाइ ।।१०।। यदि आकारात्मकं वस्तु भवनं भवनात्मकं वा आकारात्मकं सामान्यविशेषयोरविनिर्भागवृत्तित्वात सर्वं साकारं जानस्तदात्मकं सामान्यं तदैव पश्यति तत् पश्यन् वा तदव्यतिरिक्तं विशेषं तदैव जानाति उभयात्मकवस्त्ववबोधैकरूपत्वात् सर्वज्ञोपयोगस्य सदा सर्वज्ञत्वं सर्वदर्शित्वं च तस्य सर्वकालं युज्यते प्रतिक्षणमुभयात्मकैकरूपत्वात् तस्य । अथवा सर्वं सामान्यं साकारं वा वस्तु न पश्यति न जानाति च तथाभूतयोस्तयोरसत्त्वात् जात्यन्धवत् आकाशवद्वा । अथवा सर्वं न जानात्येकदेशोपयोगवृत्तित्वाद् मतिज्ञानिवत् । युगपत् क्रमेण चैकान्तभिन्नोपयोगद्वयवादिमते न सर्वज्ञता सर्वदर्शिता चेत्याशय आचार्यस्य ।
[ क्रमाऽक्रमाऽभेदपक्षत्रयग्राहिण आचार्यान् नामग्रहं निर्दिश्य तैः स्वस्वपक्षपोषकतया व्याख्यातानां सूत्राणां संसूचनम्]
अत्र च जिनभद्रगणिक्षमाश्रमणपूज्यानामयुगपद्भाव्युपयोगद्वयमभिमतम् । मल्लवादिनस्तु युगपद्भावि तद्द्वयमिति । सिद्धान्तवाक्यान्यपि “सागारमणागारं लक्खणमेयं तु सिद्धाणं" (प्रज्ञाप० द्विती० प० सू० ५४ गा० १६०) । तथा “केवलणाणुवउत्ता जाणंति” (प्रज्ञाप० द्विती० प० सू० ५४ गा० १६१) इत्यादीनि युगपदुपयोगवादिना स्वमतसंवादकत्वेन व्याख्या तानि । क्रमोपयोगवादिना तु “सव्वाओ लद्धीओ” [ विशेषाव०भा० गा० ३०८९] इत्यादीनि स्वमतसंवादकत्वेन । प्रकरणकारोपि स्वमतसंवादकान्येतान्यन्यानि च व्याख्यातवान् ।।१०।।
-: ज्ञानबिन्दुः :अस्मिन्नेव वादे केवलिनः सर्वज्ञतासम्भव इत्याह
"जइ सव्वं सायारं जाणइ एकसमएण सव्वण्णू । जुजइ सयावि एवं अहवा सव्वं न जाणाइ ।।" [२/१०]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org