________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा- ९
-: ज्ञानबिन्दु: :
इत्थं ग्रन्थकृदक्रमोपयोगद्वयाभ्युपगमेन क्रमोपयोगवादिनं पर्यनुयुज्य स्वपक्षं दर्शयितुमाह
“दंसणनाणावरणक्खए समाणम्मि कस्स पुव्वयरो ।
2
होज्ज व समओप्पाओ, हंदि दुवे णत्थि उवओगा ।।" [२ / ९]
सामान्यविशेषपरिच्छेदावरणापगमे कस्य प्रथमतरमुत्पादो भवेत् ? अन्यतरोत्पादे तदितरस्याप्युत्पादप्रसङ्गात्, अन्यतरसामग्र्या अन्यतरप्रतिबन्धकत्वे च उभयोरप्यभावप्रसङ्गात् । “ सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स" इति वचनप्रामाण्यात् प्रथमं केवलज्ञानस्य पष्ठात् केवलदर्शनस्योत्पाद इति चेत् ? न, एतद्वचनस्य लब्धियौगपद्य एव साक्षित्वात्, उपयोगक्रमाक्रमयोरौदासीन्यात् योगपद्येनापि निर्वाहेऽर्थाद्दर्शनेऽनन्तरोत्पत्त्यसिद्धेः, एकक्षणोत्पत्तिककेवलज्ञानयोरेकक्षणन्यूनाधिकायुष्कयोः केवलिनोः क्रमिकोपयोगद्वयधाराया निर्वाहयितुमशक्यत्वाच्च ।
१०९
अथ ज्ञानोपयोगसामान्ये दर्शनोपयोगत्वेन हेतुतेति निर्विकल्पकसमाधिरूपछद्मस्थकालीनदर्शनात् प्रथमं केवलज्ञानोत्पत्तिः, केवलदर्शने केवलज्ञानत्वेन विशिष्य हेतुत्वाच्च द्वितीयक्षणे केवलदर्शनोत्पत्तिः, ततष्टा क्रमिकसामग्रीद्वयसम्पत्त्या क्रमिकोपयोगद्वयधारानिर्वाह इति एकक्षणन्यूनाधिकायुष्कयोस्त्वेकक्षणे केवलज्ञानोत्पत्त्यस्वीकार एव गतिरिति चेत् ? न, “दंसणपुव्वं नाणं” ( सन्मति २ / २२ ) इत्यादिना तथाहेतुत्वस्य प्रमाणाभावेन निरसनीयत्वात्, उत्पन्नस्य केवलज्ञानस्य क्षायिकभावत्वेन नाशाऽयोगाच्य । न च मुक्तिसमये क्षायिकचारित्रनाशवदुपपत्तिः, क्षायिकत्वेऽपि तस्य योगस्थैर्यनिमित्तकत्वेन निमित्तनाशनाश्यत्वात्, केवलज्ञानस्य चाऽनैमित्तकत्वाद् उत्पतौ ज्ञप्तौ चावरणक्षयातिरिक्तनिमित्तानपेक्षात्वेनैव तस्य स्वतन्त्रप्रमाणत्वव्यवस्थितेः, अन्यथा 'सापेक्षमसमर्थम्' इतिन्यायात्तत्राऽप्रामाण्यप्रसङ्गात् ।
एतेन केवलदर्शनसामग्रीत्वेन स्वस्यैव स्वनाशकत्वमिति केवलज्ञानक्षणिकत्वम्, इत्यपि अपास्तम् अनैमित्तिके क्षणिकत्वाऽयोगात्, अन्यथा तत्क्षण एव तत्क्षणवृत्तिकार्ये नाशक इति सर्वत्रैव सूक्ष्मर्जुसूत्रनयसाम्राज्यस्य दुर्निवारत्वादिति किमतिपल्लवितेन ? नन्वियमनुपपत्तिः क्रमोपयोगपक्ष एवेत्यक्रमौ द्वावुपयोगौ स्तामित्याशङ्कते मल्लवादी - “ भवेद्वा समयमेककालमुत्पादस्तयोः” इति । तत्रैकोपयोगवादी ग्रन्थकृत् सिद्धान्तयति 'हन्दि ' ज्ञायतां द्वावुपयोगी नैकदेति, सामान्यविशेषपरिच्छेदात्मकत्वात् केवलज्ञानस्य यदेव ज्ञानं तदेव दर्शनमित्यत्रैव निर्भर: उभयहेतुसमाजे समूहालम्बनोत्पादस्यैव अन्यत्र दृष्टत्वात् नात्र अपरिदृष्टकल्पनाक्लेश इति भावः ।
2-व समओप्पाओ (ज्ञानबिन्दु)
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org