SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १०८ संमतितर्कप्रकरणे, काण्ड-२, गाथा-८-९ [ सोपसंहारमागमविरोधस्य स्पष्टीकरणम् ] तदेवं क्रमाभ्युपगमे तयोरागमविरोध इत्युपसंहरन्नाह संतम्मि केवले दंसणम्मि णाणस्स संभवो णत्थि । केवलणाणम्मि य दंसणस्स तम्हा सणिहणाई ।।८।। क्रमोत्पादे सति केवलदर्शने न तदा ज्ञानस्य संभवस्तथा केवलज्ञाने न दर्शनस्य तस्मात् सनिधने केवलज्ञानदर्शने ।।८।। ___ -: ज्ञानबिन्दुः :तदेवं क्रमाभ्युपगमे तयोरागमविरोध इत्युपसंहरन्नाह “संतंमि केवले दंसणम्मि नाणस्स संभवो णत्थि । केवलनाणम्मि य दंसणस्स तम्हा अनिहणाइं ।।" [२/८] स्वरूपतो द्वयोः क्रमिकत्वेऽन्यतरकालेऽन्यतराभावप्रसङ्गः, तथा च उक्तवक्ष्यमाणदूषणगणोपनिपातः, तस्मात् द्वावप्युपयोगौ केवलिनः स्वरूपतोऽनिधनावित्यर्थः ।। [प्रकरणकारेण क्रमोपयोगद्वयवादिनम् सहोपयोगद्वयवादिनं च पर्यनुयुज्य स्वपक्षस्योपन्यासः] अत्र प्रकरणकारः क्रमोपयोगवादिनं तदुभयप्रधानाक्रमोपयोगवादिनं च पर्यनुयुज्य स्वपक्षं दर्शयितुमाह दंसणणाणावरणक्खए समाणम्मि कस्स पुव्वअरं । होज्ज समं उप्पाओ हंदि दुए णत्थि उवओगा ।।९।। सामान्यविशेषपरिच्छेदकावरणापगमे समाने कस्य प्रथमतरमुत्पादो भवेत् अन्यतरस्योत्पादे तदितरस्याप्युत्पादः स्यात् न चेदन्यतरस्यापि न स्यादविशेषात् इत्युभयोरप्यभावप्रसक्तिः । अक्रमोपयोगवादिनः कथमिति चेत् समम् एककालम् उत्पादस्तयोर्भवेत् सत्यक्रमकारणे कार्यस्याप्यक्रमस्य भावादित्यक्रमौ द्वावुपयोगौ । अत्रैकोपयोगवाद्याह-'हंदि दुवे णत्थि उवओगा' इति द्वावप्युपयोगौ नैकदेति ज्ञायताम् सामान्यविशेषपरिच्छेदात्मकत्वात् केवलस्येति ।।९।। 1-अनिहणाई (ज्ञानबिन्दु) 12-सनिहणाई (संमति.) । 3-समं उप्पाओ (संमति.) । ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy