________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-७
१०७
-: ज्ञानबिन्दुः :न केवलं क्रमवादिनोऽनुमानविरोधः अपि त्वागमविरोधोऽपीत्याह
“सत्तंमि चेव 'साई-अपज्जवसियं' ति केवलं वुत्तं ।
सुत्तासायणभीरुहिं तं च दट्ठव्वयं होइ ।।" [२/७] साद्यपर्यवसिते केवलज्ञानदर्शने सूत्रे प्रोक्ते क्रमोपयोगे तु द्वितीयसमये तयोः पर्यवसानमिति कुतोऽपर्यवसितता ? । तेन सूत्राशातनाभीरुभिः क्रमोपयोगवादिभिस्तदपि द्रष्टव्यम् । चोऽप्यर्थः । न केवलं केवली णं भंते इमं रयणप्पभं पुढविं' इत्याधुक्तसूत्रयथाश्रुतार्थानुपपत्तिमात्रमिति भावः । न च द्रव्यापेक्षयाऽपर्यवसितत्वम्, द्रव्य विषयप्र नोत्तराश्रुतेः । न च “अर्पितानर्पितसिद्धेः” (तत्वार्थ, सूत्र-५/३१) इति तत्त्वार्थसूत्रानुरोधेन द्रव्यार्पणयाऽश्रुतयोरपि तयोः कल्पनं युक्तम् अन्यथा पर्यायाणामुत्पादविगमात्मकत्वात् भवतोऽपि कथं तयोरपर्यवसानता ? इति पर्यनुयोज्यम् ; यद्धर्मावच्छिन्ने क्रमिकत्वप्रसिद्धिः, तद्धर्मावच्छिन्ने अपर्यवसितत्वान्वयस्य निराकाङ्क्षत्वाद् अन्यथा ऋजुत्व-वक्रत्वे अपर्यवसिते इति प्रयोगस्यापि प्रसङ्गात् । मम तु रूपरसात्मकैकद्रव्यवदक्रमभाविभिन्नोपाधिकोत्पादविगमात्मकत्वेऽपि केवलिद्रव्यादव्यतिरेकतस्तयोरपर्यवसितत्वं नानुपपन्नम् ।
अथ पर्यायत्वावच्छेदकधर्मविनिर्मोकेण शुद्धद्रव्यार्थादेशप्रवृत्तेः क्रमैकान्तेऽपि केवलयोरपर्यवसिततत्वमुपपत्स्यते, अत एव पर्यायद्रव्ययोरादिष्टद्रव्यपर्यायत्वं सिद्धान्ते गीयते तत्तदवच्छेदकविनिर्मोकस्य विवक्षाधीनत्वादिति चेत् ? किमयमुक्तधर्मविनिर्मोकस्तत्तत्पदार्थतावच्छेदकविशिष्टयोः अभेदान्वयानुपपत्त्या शुद्धद्रव्यलक्षणया, उत उक्तधर्मस्य विशेषणत्वपरित्यागेन उपलक्षणत्वमात्रविवक्षया ? । आद्ये आद्यपद एव लक्षणायां 'शुद्धद्रव्यं शुद्धात्मद्रव्यं वा अपर्यवसितम्' इत्येव बोधः स्यात् । सादित्वस्यापि तत्र अन्वयप्रवेशे तु केवलिद्रव्यं साद्यपर्यवसितम्' इत्याकारक एव । उभयपदलक्षणायां तु शुद्धद्रव्यविषयको निर्विकल्पक एव बोध इति 'केवलज्ञानदर्शने साद्यपर्यवसिते' इति बोधस्य कथमपि अनुपपत्तिः । अन्त्ये य केवलत्वोपलक्षितात्मद्रव्यमात्रग्रहणे तत्र सादित्वान्वयानुपपत्तिः केवलिपर्यायग्रहणे च नवविधोपचारमध्ये पर्याये पर्यायोपचार एवाश्रयणीयः स्यादिति समीचीनं द्रव्यार्थादेशसमर्थनम् । नियतोपलक्ष्यावच्छेदकरूपाभावेऽपि संमुग्धोपलक्ष्यविषयकतादृशबोधस्वीकारे च ‘पर्यायोऽपर्यवसितः' इत्यादेरपि प्रसक्तिः । द्रव्यार्थतया केवलज्ञानकेवलदर्शनयोः अपर्यवसितत्वाभ्युपगमे द्वितीयक्षणेऽपि तयोः सद्भावप्रसक्तिः अन्यथा द्रव्यार्थत्वायोगात् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org