________________
१०६
संमतितर्कप्रकरणे, काण्ड-२, गाथा-७
[ क्रमवादिमतेऽनुमानविरोधवदागमविरोधोऽप्यापततीति प्रदर्शनम् ] न केवलं क्रमवादिनोऽनुमानविरोधः आगमविरोधोऽपीत्याह
सुत्तम्मि चेव साई अपज्जवसियं ति केवलं वुत्तं ।
सुत्तासायणभीरूहि तं च दट्ठव्वयं होइ ।।७।। साद्यपर्यवसाने केवलज्ञानदर्शने क्रमोपयोगे तु द्वितीयसमये तयोः पर्यवसानमिति कुतोऽपर्यवसितता ? तेन क्रमोपयोगवादिभिः सूत्रासादनाभीरुभिः “केवलणाणे णं भंते !" [ ] इत्यादि आगमे साद्यपर्यवसानताभिधानं केवलज्ञानस्य केवलदर्शनस्य च द्रष्टव्यं पर्यालोचनीयं भवति । सूत्रासादना चात्र सर्वज्ञाधिक्षेपद्वारेण द्रष्टव्या अचेतनस्य वचनस्याधिक्षेपायोगात् ।
न च द्रव्यापेक्षयाऽपर्यवसितत्वम् द्रव्यविषयप्रश्नोत्तराश्रुतेः । अथ भवतोऽपि कथं तयोरपर्यवसानता पर्यायाणामुत्पादविगमात्मकत्वात् ? न च द्रव्यापेक्षयैतदिति वाच्यम् अस्मत्पक्षेऽप्यस्य समानत्वात् । तद्विषयप्रश्नप्रतिवचनाभावान्नेति चेत् तर्हि भवतोऽपि द्रव्यापेक्षयाऽपर्यवसानकथनमयुक्तम्, असदेतत्; तयोर्युगपद् रूपरसयोरिवोत्पादाभ्युपगमान्न ऋजुत्व-वक्रतावत् । एवमपि सपर्यवसानतेति चेत्, न; कथंचित् केवलिद्रव्यादव्यतिरेकतस्तयोरपर्यवसितत्वात् । न च क्रमैकान्तेऽप्येवं भविष्यत्यनेकान्तविरोधात् । न चात्रापि तथाभावस्तथाभूतात्मकैककेवलिद्रव्याभ्युपगमात् रूपरसात्मकैकद्रव्यवद् अक्रमरूपत्वे च द्रव्यस्य तदात्मकत्वेन तयोरप्यक्रम एव । न च तयोस्तद्रूपतया तथाभावो न स्वरूपतस्तथात्वेऽनेकान्तरूपताविरोधान्निरावरणस्याक्रमस्य क्रमरूपत्वविरोधाञ्च तस्यावरणकृतत्वात् । किञ्च, यदि सर्वथा क्रमेणैव तयोरुत्पत्तिरनेकान्तविरोधः । अथ कथञ्चित् तदा युगपदुत्पत्तिपक्षोऽप्यभ्युपगतः । न च द्वितीये क्षणे तयोरभावे अपर्यवसितता छाद्मस्थिकज्ञानस्येव युक्ता । पुनरुत्पादादपर्यवसितत्वे पर्यायस्याप्यपर्यवसितताप्रसक्तिः । द्रव्यार्थतया तत्त्वे द्वितीयक्षणेऽपि तयोः सद्भावोऽन्यथा द्रव्यार्थत्वायोगात् ।।७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org