________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-६
१०५
___ एतेन सर्वव्यक्तिविषयकत्वसर्वजातिविषयकत्वयोः पृथगेवावरणक्षयकार्यतावच्छेदकत्वादर्थतस्तदवच्छिन्नोपयोगद्वयसिद्धिः इत्यपि अपास्तम् । तत्सिद्धावपि तत्क्रमाऽसिद्धेरावरणद्वयक्षयकार्ययोः समप्राधान्येन अर्थगतेरप्रसराञ्च । न च ‘मतिश्रुतज्ञानावरणयोः एकदा क्षयोपशमेऽपि यथा तदुपयोगक्रमस्तथा ज्ञानदर्शनावरणयोर्युगपत्क्षयेऽपि केवलिन्युपयोगक्रमः स्यात्' इति शङ्कनीयम्, तत्र श्रुतोपयोगे मतिज्ञानस्य हेतुत्वेन, शाब्दादौ प्रत्यक्षादिसामग्र्याः प्रतिबन्धकत्वेन च तत्सम्भवात्; अत्र तु क्षीणावरणत्वेन परस्परकार्यकारणभावप्रतिबन्धकभावाद्यभावेन विशेषात् । [ सर्वज्ञे छाद्मस्थिकक्रमोपयोगाभावात् तदृष्टान्तेनैव तत्र केवलज्ञानादन्यदा
केवलदर्शनाभावप्रतिपादनम् ] यज्जातीये यो दृष्टस्तज्जातीय एवासावन्यत्राप्यभ्युपगमार्हो न जात्यन्तरे धूमवत् पावकेतरभावाभावयोः अन्यथानुमानादिव्यवहारविलोपप्रसङ्गादित्याह
भण्णइ खीणावरणे जह मइणाणं जिणे ण संभवइ ।
तह खीणावरणिज्जे विसेसओ दंसणं नत्थि ।।६।। यथा क्षीणावरणे मति-श्रुताऽवधि-मनःपर्यायज्ञानानि जिने न संभवन्तीत्यभ्युपगम्यते तथा तत्रैव क्षीणावरणीये विश्लेषतो ज्ञानोपयोगादन्यदा दर्शनं न संभवतीत्यभ्युपगन्तव्यम् क्रमोपयोगस्य मत्याद्यात्मकत्वात् तदभावे तदभावात् ।।६।।
-: ज्ञानबिन्दुः :एतदेवाह
"भण्णइ खीणावरणे, जह मइनाणं जिणे ण संभवइ ।
तह खीणावरणिज्जे विसेसओ दंसणं णत्थि ।। (२/६) भण्यते निष्टिात्योच्यते, क्षीणावरणे जिने यथा मतिज्ञानं मत्यादिज्ञानं अवग्रहादिचतुष्टयरूपं वा ज्ञानं न सम्भवति, तथा क्षीणावरणीये वि लेषतो ज्ञानोपयोगकालान्यकाले दर्शनं नास्ति, क्रमोपयोगत्वस्य मत्याद्यात्मकत्वव्याप्यत्वात् सामान्यविशेषोभयालम्बनक्रमोपयोगत्वस्य च अवग्रहाद्यात्मकत्वव्याप्यत्वात, केवलयोः क्रमोपयोगत्वे तत्त्वापत्तिरित्यापादनपरोऽयं ग्रन्थः । प्रमाणं तु केवलदर्शनं केवलज्ञानतुल्यकालोत्पत्तिकम्, तदेककालीनसामग्रीकत्वात्, तादृशकार्यान्तरवत्, इत्युक्ततर्कानुगृहीतमनुमानमेवेति द्रष्टव्यम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org