________________
१०४
संमतितर्कप्रकरणे, काण्ड-२, गाथा-५
व्याख्येयम् । रत्नप्रभाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकज्ञानवान् न तादृशतावदन्यूनानतिरिक्तविषयताकदर्शनवान् केवलीति फलितोऽर्थः । यदि तादृशस्य विशिष्टदर्शनस्य निषेध्यस्याऽप्रसिद्धेर्न तनिषेधः “असतो णत्थि णिसेहो” (विशेषा. गा. १५७४) इत्यादिवचनादिति सूक्ष्ममीक्ष्यते, तदा क्रियाप्रधानमाख्यातमिति वैयाकरणनयाश्रयणेन रत्नप्रभाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकं ज्ञानं न तादृशं केवलिकर्तृकं दर्शनमित्येव बोधः सर्वनयात्मके भगवत्प्रवचने यथोपपन्नान्यतरनयग्रहणे दोषाऽभावादिति तु वयमालोचयामः । [ आगमेन केवलज्ञान-दर्शनयोर्योगपद्यमभिधाय अनुमानयुक्त्या पुनस्तत्प्रतिपादनम् ] आगमेनाभिधाय योगपद्यं ज्ञान-दर्शनयोरनुमानेनाऽपि तयोस्तद् दर्शयितुमाह
केवलणाणावरणक्खयजायं केवलं जहा णाणं ।
तह दंसणं पि जुज्जइ णियआवरणक्खयस्संते ।।५।। केवलज्ञानावरणक्षये यथोत्पन्नं विशेषावबोधस्वभावं ज्ञानं तथा तदैव दर्शनावरणक्षये सति सामान्यपरिच्छेदस्वभावं दर्शनमप्युत्पद्यताम् न ह्यविकलकारणे सति कार्यानुत्पत्तिर्युक्ता तस्यातत्कार्यताप्रसक्तेरितरत्राप्यविशेषतोऽनुत्पत्तिप्रसक्तेष्टा । ज्ञानकाले दर्शनस्यापि संभवः तदुत्पत्तौ कारणसद्भावाद् युगपदुत्पत्त्यविकलकारणघटपटयुगपदुत्पत्तिवत् । ननु च हेतौ सत्यपि श्रुताद्यावरणक्षयोपशमे श्रुताद्यनुत्पद्यमानमपि कदाचित् दृष्टमित्यनैकान्तिको हेतुः, न; श्रुतादौ क्षीणावरणत्वस्य हेतोरभावात्-श्रुतादेः क्षीणोपशान्तावरणत्वात् । भिन्नावरणत्वादेव च श्रुतावधिवन्नैकत्वमेकान्ततो ज्ञानदर्शनयोरेकदोभयाभ्युपगमवादेनैव ।।५।।
-: ज्ञानबिन्दुः :हेतुयौगपद्यादपि बलेन उपयोगयोगपद्यमापतति इत्याह
"केवलनाणावरणक्खयजायं केवलं जहा नाणं ।
तह दंसणं पि जुजइ णियआवरणक्खयस्संते ।।" [२/५] स्पष्टा, नवरं निजावरणक्षयस्यान्त इति दर्शनावरणक्षयस्यानन्तरक्षण इत्यर्थः । न च एकदोभयावरणक्षयेऽपि स्वभावहेतुक एव उपयोगक्रम इत्युक्तमपि साम्प्रतम्, एवं सति स्वभावेनैव सर्वत्र निर्वाहे कारणान्तरोच्छेदप्रसङ्गात्, कार्योत्पत्तिस्वभावस्य कारणेनेव तत्क्रमस्वभावस्य तत्क्रमेणैव निर्वाह्यत्वाञ्च ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org