________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-४
१०२
अनन्तानन्तप्रदेशिकैः स्कन्धैः, संस्थानैः परिमण्डलादिभिः, परिवारैर्घनोदधिवलयादिभिः । 'जं समयं णो तं समयमिति' च “कालाध्वनोरत्यन्तसंयोगे” (पा.२ ।३।५) इति द्वितीया सप्तमीबाधिका, तेन यदा जानाति न तदा पश्यति इति भावः । विशेषोपयोगः सामान्योपयोगान्तरितः, सामान्योपयोगष्टा विशेषोपयोगान्तरितः, तत्स्वाभाव्यादिति प्रश्नार्थः । उत्तरं पुनः हंता गोयमेत्यादिकं प्रश्नानुमोदकम् । गौतमेति गोत्रेणामंत्रणम्, प्रश्नानुमोदनार्थं पुनस्तदेव सूत्रमुच्चारणीयम् । हेतुप्रश्नस्य चात्र सूत्रे उत्तरम्-“सागारे से नाणे हवइ अणागारे से दंसणे” (प्रज्ञापना, पद ३०, सू. ३१४) इति । साकारं विशेषावलम्बि अस्य केवलिनो ज्ञानं भवति, अनाकारमतिक्रान्तविशेषं सामान्यावलम्बि दर्शनम् ।
न चानेकप्रत्ययोत्पत्तिरेकदा निरावरणस्यापि, तत्स्वाभाव्यात् । न च चक्षुर्ज्ञानकाले श्रोत्रज्ञानोत्पत्तिरुपलभ्यते । न च आवृतत्वात्तदा तदनुत्पत्तिः, स्वसमयेऽपि अनुत्पत्तिप्रसङ्गात् । न च अणुना मनसा यदा यदिन्द्रियसंयोगस्तदा तज्ज्ञानमिति क्रमः परवाद्यभिमतोऽपि युक्तिमान्, सर्वाङ्गीणसुखोपलम्भाधुपपत्तये मनोवर्गणापुद्गलानां शरीरव्यापकत्वकल्पनात्, सुषुप्तौ ज्ञानानुत्पत्तये त्वङ्मनोयोगस्य ज्ञानसामान्ये हेतुत्वेन रासनकाले त्वाच-रासनोभयोत्पत्तिवारणस्य इत्थमप्यसम्भवाञ्च । ततो युगपदनेकप्रत्ययानुत्पत्तौ स्वभाव एव कारणं नान्यत् । सन्निहितेऽपि च द्वयात्मके विषये सर्वविशेषानेव केवलज्ञानं गृह्णाति, सर्वसामान्यानि च केवलदर्शनमिति स्वभाव एवानयोरिति ।
एते च व्याख्यातारस्तीर्थकराशातनाया अभीरवः तीर्थकरमाशातयन्तो न बिभ्यतीति यावत् । एवं हि निःसामान्यस्य निर्विशेषस्य वा वस्तुनोऽभावेन न किञ्चिज्जानाति केवली न किञ्चित्पश्यति इत्यधिक्षेपस्यैव पर्यवसानात् । न च अन्यतरमुख्योपसर्जनविषयतामपेक्ष्योभयग्राहित्वेऽपि उपयोगक्रमाऽविरोधः, मुख्योपसर्जनभावेन उभयग्रहणस्य क्षयोपशमविशेषप्रयोज्यत्वात्, केवलज्ञाने छद्मस्थज्ञानीययावद्विषयतोपगमे अवग्रहादिसङ्कीर्णरूपप्रसङ्गात् । उक्तसूत्रस्य तु न भवदुक्त एवार्थः किन्तु अयं– केवलीमां रत्नप्रभां पृथिवीं यैराकारादिभिः समकं तुल्यं जानाति न तैराकारादिभिस्तुल्यं पश्यतीति किमेवं ग्राह्यम् ? (हन्ता) एवमित्यनुमोदना । ततो हेतौ पृष्टे सति तत्प्रतिवचनं भिन्नालम्बनप्रदर्शकं तज्ज्ञानं साकारं भवति यतो दर्शनं पुनरनाकारमित्यतो भिन्नालम्बनावेतौ प्रत्ययाविति प्रत्यपादीति टीकाकृतः । अत्र यद्यपि ‘जं समयं' इत्यत्र 'जं' इति अम्भावः प्राकृतलक्षणात्, यत्कृतमित्यत्र ‘जंकयं' इति प्रयोगस्य लोकेऽपि दर्शनादिति वक्तुं शक्यते, तथापि तृतीयान्तपदवाच्यैराकारादिभिः लुप्ततृतीयान्तसमासस्थयत्पदार्थस्य समकपदार्थस्य च अन्यूनानतिरिक्तधर्मविशिष्टस्य रत्नप्रभायां भिन्नलिङ्गत्वादनन्वय इति ‘यत् समकम्' इत्यादि क्रियाविशेषणत्वेन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org