________________
१०२
संमतितर्कप्रकरणे, काण्ड-२, गाथा-४
ग्राहकं तद्विपर्यस्तम् यथा सांख्यज्ञानम् तथा च सामान्यग्राहि केवलदर्शनमिति तथा, यद् विशेषावभास्येव तथाभूते वस्तुनि तदपि विपर्यस्तम् यथा सुगतज्ञानम् तथा च केवलज्ञानमिति । यथा च सामान्यविशेषात्मकं वस्तु तथा प्रतिपादितमनेकधा ।
होढदानमपि सूत्रस्यान्यथाव्याख्यानादुपपन्नम् । तथाहि-न पूर्वप्रदर्शितस्तत्रार्थः किन्त्वयम्केवली इमां रत्नप्रभां पृथिवीं यैराकारादिभिः समकं तुल्यं जानाति न तैराकारादिभिस्तुल्यं पश्यतीति किमेवं ग्राह्यम् ? ‘एवम्' इत्यनुमोदना । ततो हेतौ पृष्टे सति तत्प्रतिवचनं भिन्नालम्बनप्रदर्शकं तत्-ज्ञानं साकारं भवति यतो दर्शनं पुनरनाकारमित्यतो भिन्नालम्बनावेतौ प्रत्ययाविति । इदं चोदाहरणमात्रं प्रदर्शितम् । एवं च सूत्रार्थव्यस्थितौ पूर्वार्थकथनमाल दानमेव । 'जं समयं' इत्यत्र 'ज' शब्दे ‘अम्' भावः प्राकृतलक्षणात्
णीया लोवमभूया आणीया दो वि बिंदु-दुब्भावा ।।
अत्थं वहति तं चिय जो चिय सिं पुव्वनिविट्ठो ।। [ ] अभूत एव बिन्दुरिहानीतः । यथा 'यत्कृतसुकृते' इति “जंकयसुकयं” [ ] इति लोकप्रयोगे ।।४ ।। [S.T.P. 606]
__ -: ज्ञानबिन्दुः :केवलज्ञानदर्शनयोः क्रमवादस्य खण्डनम्अयमभिप्राय आगमविरोधीति केषाञ्चिन्मतम्, तानधिक्षिपन्नाह
केई भणंति “जइया जाणइ तइया ण पासइ जिणो” त्ति ।
सुत्तमवलंबमाणा तित्थयरासायणाऽभीरू ।। [२/४] केचिज्जिनभद्रानुयायिनो भणन्ति-'यदा जानाति तदा न पश्यति जिनः' इति । सूत्रम् “केवली णं भंते इमं रयणप्पभं पुढविं आयारेहिं पमाणेहिं हेऊहिं संठाणेहिं परिवारेहिं जं समयं जाणइ णो तं समयं पासइ ? हंता गोयमा ! केवली णं...' (प्रज्ञापना, पद ३०, सू. ३१४) इत्यादिकमवलम्बमानाः ।
अस्य च सूत्रस्य किलायमर्थस्तेषामभिमतः केवली=सम्पूर्णबोधः । णमिति वाक्यालङ्कारे । भंते इति भगवन् ! इमां रत्नप्रभामन्वर्थाभिधानां पृथ्वीमाकारैः समनिम्नोन्नतादिभिः, प्रमाणैर्देादिभिः, हेतुभिः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org