________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-४
१०१
प्रश्नानुमोदनार्थं पुनस्तदेव सूत्रमुचारणीयम् हेतुप्रश्नस्य चात्र सूत्रे उत्तरम्-“साकारे से णाणे अणागारे दंसणे” [ ] साकारं विशेषावलम्बि अस्य केवलिनो ज्ञानं भवति अनाकारमतिक्रान्तविशेषं सामान्यालम्बि दर्शनम् । न चानेकप्रत्ययोत्पत्तिरेकदा निरावरणस्यापि तत्स्वाभाव्यात् न हि चक्षुर्ज्ञानकाले श्रोत्रज्ञानोत्पत्तिरूपलभ्यते । न चावृतत्वात् तदा तदनुत्पत्तिः स्वसमयेऽप्यनुत्पत्तिप्रसङ्गात् । ततो युगपदनेकप्रत्ययानुत्पत्तौ स्वभाव एव कारणम् नावरणसद्भावः । सन्निहितेऽपि च द्व्यात्मके विषये विशेषांशमेव गृह्णन् केवली तत्रैव सामर्थ्यात् सर्वज्ञ इति व्यपदिश्यते सर्वविशेषज्ञत्वात् सर्वसामान्यदर्शित्वाञ्च सर्वदर्शी । यच्चैवं व्याख्यायामकिञ्चिज्ज्ञत्वं केविलनो होढदानं चेति दूषणम्, तन्न; यतो यदि तत् केवलं ज्ञानमेव भवेद् दर्शनमेव वा ततः स्यादकिञ्जिज्ज्ञता न चैवम् आलदानमपि न संभवति 'यं समयं' इत्याधुक्तव्याख्यायाः सम्प्रदायाविच्छेदतोऽपव्याख्यानत्वायोगात् । न च दुःसम्प्रदायोऽयम् तदन्यव्याख्यातॄणामविसंवादात् “जं समयं च णं समणे भगवं महावीरे" [ ] इत्यादावप्यागमे असकृदु-चार्यमाणस्यास्य शब्दस्यैतदर्थत्वेन सिद्धत्वात् । ततो दुर्व्याख्यैषा-यैः समकं यत्समकमिति भवतैव होढदानं कृतम् । [ केवलोपयोगद्वयस्य क्रमभावित्वं प्रतिषेध्य तत्सहभावित्वपरतया आगमस्य
__व्याख्यानम् ] एते च व्याख्यातारस्तीर्थकरासादनाया अभीरवस्तीर्थकरमासादयन्तो न बिभ्यतीति यावत् । सा च 'न किञ्चिज्जानाति तीर्थकृदित्यधिक्षेपः' 'अन्यथोक्ते तीर्थकृतैवमुक्तम्' इत्यालदानम् । तथाहि-यदि विषयः सामान्यविशेषात्मकस्तदा विषयि केवलं विशेषात्मकं वा भवेत् सामान्यात्मकं वा ? यदि विशेषात्मकमिति पक्षस्तदा निःसामान्यविशेषग्राहित्वात् तेषां च तद्विकलानामभावात् निर्विषयतया तदवभासिनो ज्ञानस्याभाव इत्यकिञ्चिज्ज्ञः सर्वज्ञस्ततो भवेत् । अथ सामान्यात्मकम् एवमपि विशेषविकलसामान्यरूपविषयाभावतो निर्विषयस्य दर्शनस्याप्यभावान्न किञ्चित् केवली पश्येत् । अथायुगपद् ज्ञानदर्शने तस्याभ्युपगम्येते तथापि यदा जानाति न तदा पश्यति, यदा च पश्यति न तदा जानातीत्येकरूपाभावे अन्यतरस्याप्यभावात् पूर्ववदकिञ्चिज्ज्ञोऽकिञ्चिद्दर्शी च स्यात् । उभयरूपे वा वस्तुन्यन्यतरस्यैव ग्राहकत्वात् केवलोपयोगो विपर्यस्तो वा भवेत् । तथाहि-यद् उभयरूपे वस्तुनि सामान्यस्यैव
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org