________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा - ४
1
चक्षुरचक्षुरवधिज्ञानानि चक्षुरचक्षुरवधिदर्शनेभ्यः पृथक्कालानि, छद्मस्थोपयोगात्मकज्ञानत्वात्, श्रुतमनःपर्यायज्ञानवत् | वाक्यार्थविषये श्रुतज्ञाने, मनोद्रव्यविशेषालम्बने मनःपर्यायज्ञाने चाऽदर्शनस्वभावे मत्यवधिजाद्दर्शनोपयोगाद् भिन्नकालत्वं प्रसिद्धमेवेति टीकाकृतः दर्शनत्रयपृथक्कालत्वस्य कुत्रापि एकस्मिन्नसिसाधयिषितत्वात्, स्वदर्शनपृथक्कालत्वस्य च सिसाधयिषितस्य उक्तदृष्टान्तयोरभावात् सावरणत्वं हेतुः, व्यतिरेकी च प्रयोगः, तज्जन्यत्वं वा हेतु:, यद्यज्जन्यं तत्ततः पृथक्कालमिति सामान्यव्याप्तौ यथा दण्डात् घट इति च दृष्टान्त इति तु युक्तम् ।
केवलज्ञानं पुनर्दर्शनं दर्शनोपयोग इति वा ज्ञानं ज्ञानोपयोग इति वा समानम्, तुल्यकालं तुल्यकालीनोपयोगद्वयात्मकमित्यर्थः । प्रयोगष्टा - केवलिनो ज्ञानदर्शनोपयोगावेककालीनौ, युगपदाविर्भूतस्वभावत्वात्, यावेवं तावेवम्, यथा रवेः प्रकाशतापौ । [केवलज्ञान-दर्शनयोः सहभावित्वे विप्रतिपद्यमानानां केषांचिन्मतस्य साधिक्षेपं निर्देश: ] अयं चागमविरोधीति केषांचिन्मतमुपदर्शयन्नाह
१००
केई भांति "जइया जाणइ तइया ण पासइ जिणोति । सुत्तमवलंबमाणा तित्थयरासायणाऽभीरू ||४॥
केचित् ब्रुवते " यदा जानाति तदा न पश्यति जिनः" इति । सूत्रम् - " केवली णं भंते ! इमं रयणप्पभं पुढविं आयारेहिं पमाणेहिं हेऊहिं संठाणेहिं परिवारेहिं जं समयं जाणइ नो तं समयं पासइ ? हंता गोयमा ! केवली णं” [ ] इत्यादिकम्-अवलम्बमानाः ।
अस्य च सूत्रस्य किलायमर्थः केवली सम्पूर्णबोधः 'णं' इति प्रश्नोऽभ्युपगमसूचकः । ‘भन्ते !' इति भगवन् ! इमां रत्नप्रभामन्वर्थाभिधानां पृथ्वीमाकारैः समनिम्नोन्नतादिभिः प्रमाणैर्दैर्घ्यादिभिः हेतुभिरनन्तानन्तप्रदेशिकैः स्कन्धैः संस्थानैः परिमण्डलादिभिः परिवारैः घनोदधिवलयादिभिः ‘जं समयं णो तं समयं' इति च " कालाध्वनोरत्यन्तसंयोगे ” [पा० २-३५] इति द्वितीया अधिकरणसप्तमीवाधिका तेन यं समयं जानाति यदा जानातीत्यर्थः 'णो तं समयं पश्यतीति न तदा पश्यतीति भावः । विशेषोपयोगः सामान्योपयोगान्तरितः सामान्योपयोगष्टा विशेषोपयोगान्तरितस्तत्स्वाभाव्यादिति प्रश्नार्थः । उत्तरं पुनः 'हंता गोयमा !' इत्यादिकं प्रश्नानुमोदकम् 'हंता' इत्यभिमतस्यामन्त्रणम् 'गौतम' इति गोत्रामन्त्रणम्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org